OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 23, 2021

 व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः। 

सम्प्रतिवार्तया अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवः आयोजितः। 

 कोच्ची> संस्कृतभाषायाः व्वहारिकप्रयोगैः भारतस्य सांस्कृतिकभाषामिमां राष्ट्रियभाषां कर्तुं वयं प्रयत्नं करिष्यामहे इति सुप्रसिद्धः आकाशवाणीवार्ताप्रवाचकः डो. बलदेवानन्दसागरः उदबोधयत्। 'सम्प्रतिवार्तया' आयोजितस्य अन्ताराष्ट्रियसंस्कृतदिनमहोत्सवस्य समुद्घाटनं दृश्यश्राव्यमाध्यमद्वारा कुर्वन् भाषमाण आसीत् सः। संस्कृताभियानं - २०२१ इति कृतनामधेये महोत्सवेSस्मिन् विद्यालयच्छात्रैः  विविधाः संस्कृतकार्यक्रमाः दृश्यश्राव्यमाध्यमेन प्रस्तुतीकृताः।  

  'सम्प्रतिवार्ता' अन्तर्जालीयदिनपत्रिका संस्कृतप्रचारार्थं संस्कृतं व्यावहारिकं कर्तुं च अनेकधा प्रयतमाना वर्तते इति बलदेवानन्दसागरवर्येण अनुमोदितम्। तेनोद्बोधितं यत् यथा अस्माकं राष्ट्रियपक्षी मयूरः, राष्ट्रियक्रीडा होक्की तद्वत् संस्कृतं राष्ट्रियभाषा भवितुं वयं प्रयत्नं करिष्यामहे इति अस्माभिः विशेषेण विचारणीयम्। अधिकाधिकं व्यावहारिकप्रयोगः भवति चेत् संस्कृतं नातिचिरेण राष्ट्रियभाषा भवेदिति सः प्रतीक्षां प्राकटयत्। 

  राष्ट्रपतिपुरस्कारेण समादृतः पण्डितवरः महामहोपाध्यायः डो. जि. गङ्गाधरन् नायरः अध्यक्ष आसीत्। न केवलं पुस्तकपठनं किन्तु एतादृशानि पाठ्येतरप्रवर्तनान्यपि संस्कृतभाषाध्ययने प्राधान्यमर्हन्ति, तद्वारा भारतसंस्कृतिरपि उन्नेष्यतीति सः प्रस्तौति स्म। आकाशवाणी-दूरदर्शनयोः वार्ताप्रवाचकौ सुनिलजोषी, युवराजभट्टरायी च आशंसां कृतवन्तौ। सम्प्रतिवार्तायाः निदेशकमण्डलसदस्यौ डो. टि नारायणन् कुट्टी, एन् के रामचन्द्रश्च छात्रान् अनुमोदितवन्तौ। पत्रिकायाः मुख्यसम्पादकः अय्यम्पुष़ हरिकुमारः स्वागतं सहसम्पादकः ऐवर्काला रविकुमारः कृतज्ञतां च कृतवन्तौ। 

   अमेरिक्का ओमानः इत्यादिनां विदेशराष्ट्राणां मध्यप्रदेशः, राजस्थानं  गुजरातः,  महाराष्ट्रं, कर्णाटकं, तमिलनाड्, केरलं, इत्यादीनां राज्यानां च बहवः छात्राः विभिन्नाः कार्यक्रमाः प्रस्तुतीकृतवन्तः।