OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 27, 2021

 नवजीवने आह्लादनर्तनं कुर्वती अफगान् बालिका ।

चित्रमिदं जनमनस्सु आह्लादं जनयन् विराजते।


   बेल्जियम्> परितः सर्वं गोलिकाप्रहारकं धृत्वा मुखाच्छादिताः योद्धारः। विस्फोटशब्द मुखरितं भूमण्डलम्। भयचकितानां जनानाम् आक्रन्दनम्, मातापितृभ्यां हस्ते निक्षिप्तं वस्त्रभाण्डं ऊढ्वा कुत्र पलायनं करिष्यामि इति अज्ञात्वा   अफ्गानिस्थानस्थं विमानं तस्याः लघुबालिकायाः प्रवेष्टुं अवसरः लब्धः। षट्होरानन्तरं सा बालिका विमानात् बेल्जियस्य भूमौ  पादक्षेपणं कृतवती। बेल्जिये मिल्स्ब्रूक् विमानपत्तने सर्वं विस्मृत्य नवजीवनं लक्ष्यीकृत्य भयाशङ्कां विना आनन्दनटनं कुर्वत्याः बालिकायाः चित्रं जनमनांसि हठादाकर्षन्ति। रोयिट्टेष्स् वार्तासंघस्य जोवान गेरोण् नामकेन वार्ताहरेण गृहीतं छायाचित्रम् इदानीं सामूहिकमाध्यमेषु  त्वरितप्रशस्तं वर्तते।