OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 31, 2021

 पारालिम्पिक्स् मध्ये भारतस्य अभिमानदिनम्।

सुवर्णद्वयं समेत्य पञ्च पदकानि। 

   टोक्यो> ओलिम्पिक्स् महोत्सवस्यानन्तरं टोक्यो नगरे प्रचाल्यमाने पारालिम्पिक्स् नामके अङ्गपरिमितानाम् 'ओलिम्पिक्स्' महोत्सवे भारतस्य अत्युज्वलं प्रकटनम्। शूलक्षेपणे गुलिकाप्रक्षेपे च भारतेन सुवर्णपदकं प्राप्तम्।  एतत्समेत्य पञ्च पदकानि भारतेन प्राप्तानि। 

  पुरुषाणां शूलक्षेपणे एफ् ६६ विभागे हरियाणे पानीपत प्रदेशीयः सुमित् आन्टिलः सुवर्णपदकः प्राप्तः। महिलानां १० मीटर् 'एयर् रैफिल्' स्पर्धायां राजस्थानीया अवनी लेख्रा अपि भारताय सुवर्णं सम्पादितवती। पुरुषाणां शूलक्षेपणस्य एफ् ४६ विभागे देवेन्द्रजजारियः रजतपदकं, सुन्दरसिंह गुर्जरः कांस्यं च सम्प्राप्तवन्तौ।