OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 3, 2021

होक्किस्पर्धायां भारतस्य पराजयः।

    टोक्यो> पुरुषाणां होक्किस्पर्धायाः पूर्वान्त्यचक्रे बल्जियं प्रति भारतं पराजयं प्राप। स्पर्धायाः प्राथमिकस्तरेषु २-१ इति लक्ष्यकन्दुकक्रमेण अग्रस्थितं भारतं विरुध्य अन्तिमसोपाने बल्जियेन चत्वारि लक्ष्याण्यपि प्राप्तानि। कांस्यपदकप्राप्त्यर्थं भारतस्य स्पर्धा अवशिष्यते। 

अश्वाभ्यासे जूलिया सुवर्णपदकं प्राप्तवती। 

अश्वाभ्यासस्य प्लवनमिति सविशेषे वैयक्तिकविभागे पुरुषक्रीडकान् आसाद्य जर्मन्याः महिलातारः जूलिया कजेस्कि सुवर्णपदकं प्राप्तवती। ब्रिट्टनस्य टोम् मक्वीनः रजकपदकं आस्ट्रेलियायाः आन्ड्रू होय् कांस्यपदकं च प्राप्तवन्तौ। 

 द्युति चन्द्रा बहिर्गता  

महिलानां २०० मीटर् धावनस्पर्धायां भारतस्य द्युतीचन्द्रा पूर्वान्त्यचक्रं न प्राविशत्। 'हीट्स्' मध्ये अन्तिमस्थानत्वेन धावितवती सा अधिकरणात् बहिर्गता।