OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 15, 2021

 महिलानां विजयप्राप्तिः राष्ट्रविकासस्य मार्ग निर्देशिका - भारतराष्ट्रपतिः।


  नवदिल्ली> समीपकाले विविधमण्डलेषु भारतीयमहिलाभिः अधिगताः विजयप्राप्तयः भाविष्यत्काले राष्ट्रेण सम्प्राप्स्यमनस्य विकासस्य सूचनाः भवन्ति इति भारतस्य राष्ट्रपतिना  रामनाथकोविन्देन उक्तम्। भारतस्य ७५तमस्य स्वतन्त्रतादिवसस्य पूर्वेद्युः राष्ट्रमभिसंबोधयन् भाषमाण आसीत् राष्ट्रपतिः। 

 क्रीडामण्डलेन सह जीवितस्य विविधकर्मक्षेत्रेषु महिलानां भागभागित्वं विजयसाफल्यं च महत्परिवर्तनाय कारणं भवतीति ओलिम्पिक्स् मध्ये वनिताक्रीडकाणाम् उद्योगं विजयप्राप्तिं च स्मृत्वा राष्ट्रपतिना निरीक्षितम्।