OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, August 16, 2021

सैनिकविद्यालये इतः परं बालिकाप्रवेशः।

नवदिल्ली> सैनिकविद्यालये इतः परं बालिकाभ्यः अपि प्रवेशाय अनुमतिः। भारतस्य पञ्चसप्ततितम स्वतन्त्रता-समारोहदिने रक्तदुर्गे (Red Fort) कृते भाषणे एव प्रधानमन्त्रिणा नरेन्द्रमोदिना एवं प्रख्यापितम्। सैनिकविद्यालये प्रवेशं दातव्यम् इति उक्त्वा बह्यः बालिकाः मह्ययं पत्रिकाम् प्रेषितवत्यः वर्तन्ते इति प्रधानमन्त्रिणा प्रोक्तम्। इदानीं राष्ट्रे ३३ सैनिकविद्यालयाः सन्ति। सार्धद्विसंवत्सरात् पूर्वं मिसोरामदेशस्थे सैनिकविद्यालये परीक्षणार्थम् इदंप्रथमतया बालिकाभ्यः प्रवेशानुमतिः दत्ता आसीत्।