OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 17, 2021

 अफ्गानिस्थाने  सर्वत्र अरक्षितावस्था इति अभयार्थिनः।


अफ्गानः पूर्णतया तालिबानस्य नियन्त्रणे जाते जनैः प्राणरक्षार्थं संघशः पलायनम् आरब्घम्। अफ्गानस्य अध्यक्षः अषरफ् गनिः तस्य सहचराः च ओमान् राष्ट्रं प्रति पलायनम् अकुर्वन्। अन्यराष्ट्रैः च अफ्गानस्य नागरिकाणां कृते सीमाः उद्घाटिताः। अस्मिन् अवसरे विविधानां प्रमुखनेतृणां अभयकेन्द्रमभवत् भारतम्। भारते समागतानां अभयार्थिनां सकलानाम् एका तालिबान कथा वक्तुम् अस्ति। सा एवं भवति 'वयं सर्वे तालिबानस्य  अतिक्रूरपीडनम् असहमानाः पलायिताः भवामः' इति अभयार्थिनः अकथयन्।