OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, August 14, 2021

 रत्नशालाविज्ञापनात् वधूनां चित्राणि निष्कासयितव्यानि इति केरलराज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्।

   कोच्चि > रत्नशालाविज्ञापनात् (jewellery  advertisement ) वघूनां चित्राणि निष्कासयितव्यानि इति राज्यपालेन आरिफ् मुहम्मद्खानेन समभ्यर्थितम्। विज्ञापनानि सामान्य जनान् स्ववशीकरिष्यन्ति। रत्नाभरणानि वघूजनेन समं न निबध्नातु। वधूनां चित्रस्य स्थाने गृहिणीनां शिशूनां वा चित्राणां निवेशनं करणीयम्। केरल विश्वविद्यालयस्य मत्स्यपालन-समुद्रिक शिक्षा (Kerala University of fisheries and Oceanic Studies ( K U F O S ) विभागानां छात्राणां बिरुददानसमारोहे भागं स्वीकृत्य भाषणं कुर्वन् आसीत् अयम्। स्त्रीधनदुराचारमधिकृत्य अवबोधनार्थं सहायकं भविष्यति एतत् इति तेन अभिप्रेतम्। 

     लब्धं स्त्रीधनम् अपर्याप्तम् इति उक्त्वा पुरुषेण वा तस्य गृहाङ्गैः केरलेषु वधूजनाः काचन पीडिताः मारिताः च। सर्न्दर्भे अस्मिन् राज्यपालस्य स्वाभिमतप्रकाशनम् सन्दर्भोचितम् इति सामाजिकनिरीक्षकाः वदन्ति।