OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 22, 2021

 ३२९ भारतीयाः अफ्गानिस्थानात् प्रत्यागताः। 

   नवदिल्ली> तालिबानस्य शासननिग्रहणात् अफ्गानिस्थाने लग्नेषु भारतीयेषु भारतीयेषु ३२९ जनाः स्वदेशं प्रत्यागताः।  प्रत्याजिगमिषूणां मध्ये ये पञ्जीकृताः, तान् सर्वान् भारतीयान्  स्वराष्ट्रं सम्प्रापयितुं तीव्रोद्यमाः भारतसर्वकारेण अनुवर्तन्ते। एयरिन्डिया संस्थायाः द्वे विमाने रक्षापरिश्रमे भागं वहतः।

  ३९२ जनाः एयरिन्डियाविमानेषु भारतं नीताः। केचन नेप्पालदेशीयाः भवन्ति। शिष्टेषु ३२९ भारतीयेषु विभिन्नराज्यस्थाः अन्तर्भवन्ति। ५२ केरलीयाः अपि अन्तर्भवन्ति।