OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, August 3, 2021

सर्वेभ्यः वाक्सिनं ददत् प्रथमं भारतीयनगरमभवत् भुवनेश्वरः।

   भुवनेश्वरः> कोविडस्य तृतीयतरङ्गभीषां प्रतिरोद्धुं राष्ट्रे प्रयतमाने सन्दर्भेfस्मिन् प्रतिशतं१०० जनानां वाक्सिनं प्रयच्छत् प्रथमं भारतीयनगरमभवत् ओडीशायाः राजधानी भुवनेश्वरः। भुवनेश्वरस्य नगरसभामण्डले (बि एम् सि) दक्षिणपूर्वमण्डलस्य उपायुक्तेन अन्षुमान् रथेन कार्यमिदम् औद्योगिकतया प्रकाशितम्। निश्चितसमये एव वाक्सिनीकरणं पूर्तीकरणीयम् इति वयं निश्चितवन्तः। अष्टादशवयोपरि नवलक्षं जनाः बि एम् सि मध्ये सन्ति। तेषु ३१,००० स्वास्थ्यप्रवर्तकाः ३३,००० प्रथमश्रेणीयोद्धारः च भवन्ति। १८ वयस्कात् आरभ्य ४४ वयस्कपर्यन्तं ५,१७००० जनाः तथा ४५ वयोपरि ३,२५,००० जनाः च सन्ति। जूलाय् मासस्य एकत्रिंशत् दिनाभ्यन्तरे सर्वेभ्यः वाक्सिनं दातुं वयं केचन योजनाः समायोजिताः इति   ए एन् ऐ माध्यमाय प्रदत्ताम् प्रस्तुत्याम् अन्षुमानेन उदीरितम्।