OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 29, 2021

 वाक्सिनस्य मात्राद्वयं स्वीकृतवताम् आराष्ट्रं प्रयाणानुज्ञा। 

नवदिल्ली > कोवि़ड्वाक्सिनस्य मात्राद्वयमपि  स्वीकृतेभ्यः जनेभ्यः राष्ट्रे यत्रकुत्रापि आर् टि पि सि आर् निकषं विनैव यात्रां कर्तुं भारतसर्वकारेण अनुज्ञा दत्ता। रोगलक्षणानि सन्ति चेत् 'आन्टिजन्' परीक्षणम् आवश्यकम्। राष्ट्रे कोविड्रोगव्यापनम् आकुञ्चदस्ति इत्यत एव ईदृशं लाघवं निर्दिष्टम्। 

  विविधराज्यैः  अन्तर्राज्यप्रयाणाय भिन्नभिन्नाः मानदण्डाः स्वीकृताः इत्येतत् यात्रिकाणां क्लेशकारणमासीत्। किन्तु यत्र रोगव्यापनं तीव्रमस्ति तादृशेषु राज्येषु प्रादेशिकावस्थां निरीक्ष्य नियन्त्रणं विधत्तुमधिकारोSस्ति।