OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, August 1, 2021

 कोविड् वैराणोः नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनम् अत्यन्तापेक्षितमिति विश्वस्वास्थ्यसंस्था। 

     जनीव> इतःपरं नूतनभेदपरिणामात् पूर्वं कोविडस्य उन्मूलनाशनाय पूर्वसूचना एव डेल्टा विभेदः इति विश्वस्वास्थ्यसंस्थया प्रतिवेदितम्। वाक्सिनस्वीकरणमेव कोविडं नाशयितुम् उपायमिति विश्वस्वास्थ्यसंस्थायाः आपत्कालीन विभागस्य निदेशकेन मैक्किल् रयानेन प्रोक्तम्। डेल्टा विभेदः अनेकेषु राष्ट्रेषु रोगव्यापनाय हेतुरभवत्। सामूहिकदूरपालनं, मुखावरणधारणं, हस्तशुचीकरणम् इत्यादयः प्रतिरोधमार्गाः नूतन विभेदाय अधुनापि फलप्रदा भवन्ति। गतचतुस्सप्ताहाभ्यन्तरे रोगव्यापनं वर्धितं दृश्यते इति विश्व-स्वास्थ्यसंस्थायाः अधिपेन टेड्रोस् अथनोम् गेब्रियेससेन निगदितम्। रोगव्यापनम् अनुवर्तते चेत् अतिमारकवैराणुविभेदाः जायन्ते। सामूहिकदूरपालनं विना सम्मिलितान् तथा अन्यप्रतिरोधमार्गपालनविमुखान् च डेल्टा विभेदः अधिकतया बाधते इति प्रमाणानि द्योतयन्ति।