OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, August 6, 2021

होक्यां कांस्यपदकप्राप्त्या भारतस्य सुवर्णशोभा। 

टोक्यो> ओलिम्पिक्स् कायिकमहोत्सवपरम्परायाः होक्किस्पर्धायां भारताय अभिमानीकृतविजयः। कांस्यपदकमुद्दिश्य ह्यः सम्पन्नायां स्पर्धायां शक्तिमन्तं जर्मनीदलं ५-४ इति लक्ष्यकन्दुकक्रमेण पराजित्य भारतं कांस्यपदकं प्राप्तवत्। ओलिम्पिक्स् होक्कीस्पर्धासु ४१ संवत्सरानन्तरमेव भारताय किमपि पदकमिति कारणेन अस्मिन् कांस्यपदके सुवर्णकान्तिः वर्तते। 

   भारतस्य लक्ष्यस्थानपालकः केरलीयः  पि आर् श्रीजेषः स्पर्धायामासकलं पदकप्राप्त्यर्थं निर्णायकं स्थानमवहत्। पूर्वान्त्यचक्रप्रवेशाय तथा कांस्यपदकप्राप्तये च तस्य पालनपाटवः अतुल्य आसीत्। 

  प्रधानमन्त्री राष्टपतिः इतरे च भारतस्य चरित्रविजये दलाय अभिनन्दनानि आशंसनानि  च समर्पितवन्तः।