OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 16, 2021

 फेरो द्वीपे मृगयाविनोद:। एकदिनाभ्यनरे 1500 मकरमत्स्याः हताः।

   कोप्पन् हेगन्> डेन्मार्कस्थः फेरो द्वीपः इदानीं शोणितमयं भवति। दीपस्थे स्कालबोट्सूर् समुद्रतीरे एकस्मिन् दिनाभन्तरे  1500 मकरमत्स्याः हताः। द्वीपे प्रतिवर्षं विनोदार्थम् आयोज्यमाने ग्रैन्डड्राप् नाम  समुद्रविनोदाखेटे एव बहवः मकरमत्स्याः आहताः। गतचतुःशतसंवत्सरं यावत् अनुवर्तिते आचारसंबन्धिविनोदे गणनातीताः तिमिंगलाः, मकरमत्स्याः च आखेटिताः सन्ति। फेरो द्वीपसमीपे तीरदेशे मृतिमुपगतानां मकरमत्स्यानां चित्राणि सामूहिक माध्यमेषु प्रचलिताः सन्ति। विनोदार्थं फेरो जनतया कृतानि क्रूरकर्माणि इदानीं आगोलतले रोषकारणम् अभवत्। मकरमत्स्यानां हननं निरोधयितुं प्रक्रमः आवश्यकः इति समुद्रजीविपालनसंधाः अभिप्रयन्ति। शताब्दानि यावत् अनुवर्तमानः मृगयाविनोदः एषः इत्यतः क्रूरकर्ममेतत् फेरो द्वीपे नियमानुसृतं अङ्गीकृतं च भवति।