OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

English/Hindi Version

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed Research Journal on Indology
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 21, 2021

 चाटुश्लोकस्पर्धा-विजयी- अभिषेक मुखार्जी, पश्चिमबङ्ग

अभिषेक मुखार्जी

चाटुश्लोकस्य उत्तरम्
वयं याचकेभ्यो धनं रामः क्रियापदं रामः रा दाने अदादि प्रकरणे परस्मैपदी लट् उत्तमपुरुष बहुवचनं,कर्तृपदं वयम्

नमस्काराः 

 पश्चिमबङ्गराज्यान्तर्गतो जयरामबाटी इति ग्राम् एव मम जन्मस्थानम्। तिरुपतिस्थे राष्ट्रियसंस्कृतविश्वविद्यालये विद्यावारिधिच्छात्रोहम्। अपि च संस्कृतसम्वर्धनप्रतिष्ठाने वरिष्ठशोधच्छात्ररूपेण इदानीमस्मि।

 सम्प्रतिवार्तापत्रिकातः एकोनविंशे दिनांके प्राप्तप्रहेलिकोहं ज्ञानज्येष्ठवयःकनिष्ठस्य सुकान्ताभिधेयानुजस्य साहाय्यमङ्गीकृत्यास्या उत्तरं प्रेषितवान्। आदौ सदुत्तरं मयैव समर्पितमिति हेतोर्महोदयैः संसूचितोहं यत् निःशुल्केन प्रतिकृतिरिति चलच्चित्रस्य दर्शनार्हता प्राप्तेति।

अन्तर्जालादिसमस्यास्वपि चलच्चित्रस्य महता गौरवेण तास्समस्या नानुभूता एव।

 अपरिचिते संशय इति गृहस्थानां नैसर्गिकः स्वभावः। किन्तु तत्संशयादिप्रतिकूलतामतिक्रम्य परोपकारिसरलमनसा गृहजनानां मनोगतस्य संशयस्य पारं गत्वा तेषामुपरि कथं विजयप्राप्तिः सम्भवेदित्यस्मिन् चलच्चित्रे दर्शितमस्ति। अपि च जनसम्मर्द्दराहित्यम्, ग्रामस्य नैसर्गिकी स्निग्धता ग्रामवासिनां नैसर्गिकं सारल्यञ्च सहृदयदर्शकान् नितरां मुह्यन्ति। चलच्चित्रे विद्यमाना न्यायालयीया विचारव्यवस्था भारतीयन्यायालयेषु जनानां विश्वासं प्रतिष्ठापयति। चलच्चित्रस्य आमूलाग्रं विचार्य वक्तुं शक्यते यदेतादृशमनवद्यं सर्वतोमुखि इव इतोपि नैकानि संस्कृतचलच्चित्राणि  निर्मितानि भवन्ति।चलनचित्रकारः डाॅ. निधीशगोपिमहोदयम् अभिनन्दामि। एतादृशकार्यक्रमस्य कृते सम्प्रतिवार्तापत्रिकायै मम हार्द्दं कार्तज्ञ्यम् ।

Pratikriti https://www.firstshows.com/movie/pratikriti