OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 29, 2021

उरि देशे नियन्त्रणरेखाम् उल्लङ्घितः भीकरः सेनया आहतः। एकः संगृहीतश्च।

श्रीनगरम्।> जम्मू देशे उरि वृत्तखण्डे नियन्त्रणरेखाम् अतिक्रमितुम् उद्युक्तं लक्षर् इ त्वय्ब भीकरं सैन्यं जघान। अन्यः एकः आतङ्की संगृहीतः च इति सेनया आवेदितः। संगृहीतस्य भीकरस्य नाम अलि बाबर् पत्र इति भवति। सः पाकिस्थानस्य पञ्चाबदेशात् आगतः इति सैन्यस्य वक्त्रा सर्वमुख्येन (Major General) वीरेन्द्र वट्स् महाभागेन प्रोक्तम्। गतस्प्ताहाभ्यन्तरे सीमाम् अतिक्रम्य आगताः सप्त भीकराः सैन्येन आहताः। बहवः भीकराः व्रणिताश्च। पाकिस्थानस्य सैन्यानां साहाय्यं विना सीमां उल्लङ्घयितुं न शक्यते इति सर्वमुख्यः अवदत्।