OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 26, 2021

 सीमनि चीनेन ग्रामं निर्मितम्।  लोलुपजीवनेन भारतीयान् प्रलोभयितुं प्रयतते।

 

गान्धीनगरम्> भारतचीनयोः  सीमनि ६८० कुटीरयुक्तं ग्रामं चीनेन निर्मितम् इति सूचना। अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्या एव घटनेयं प्रतिवेदिता। तस्मिन्  ग्रामस्थाः नागरिकाः भारतीयान् प्रलोभयित्वा स्ववशं कर्तुं यतते इत्यपि प्रतिवेद्यते। एतत् चीनस्य दक्षविभागस्य प्रवर्तनं भवति। तैः भारतीयाः भारतविरुद्धाः क्रियन्ते। एतादृशप्रवर्तनानि निरोद्धुं आरक्षकेभ्यः परिशीलनं ददाति इति अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्याः निर्वाहकसमित्यङ्गेन कृष्णवर्मणा निगदितम्।