OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Sunday, September 12, 2021

 नवदिल्ल्यां विमानपत्तने जलसञ्चयः। 

अतिवृष्ट्या विमानसेवायां विध्नः अभवत्।।


 नवदिल्ली> अतिवृष्टिकारणेन नवदिल्ल्यां इन्दिरागान्धि विमानपत्तने विविधेषु भागेषु जलसञ्चयः जातः। ४६ संवत्सराभ्यन्तरे जाता अत्युच्चतमा वृष्टिरेव रेखाङ्‌किता। शुक्रवासरे नवदिल्ल्यां १००० एम् एम् वृष्टिः एव वर्षिता। वातावरणं विमानसेवाम् अबाधत। इन्डिगो, स्पैस् जेटट् प्रभृतयः विमानसंस्थाभिः  गृहतः विमाननिलयागमनात्  पूर्वं विमानस्थितिः  (flight status) द्रष्टव्या इति यात्रिकाः   समभ्यर्थिताः । आकस्मिकतया जातः घोरवर्षा एव जलसञ्चयस्य कारणं, समस्याः परिहृताः इति नवदिल्ल्याः विमानपत्तनाधिकारिभिः ट्विट्टर् माध्यमेन संवेदितम्।