OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 4, 2021

 पारालम्पिक्स् - भारताय गतदिने पदकत्रयलब्धिः। 

टोक्यो > अङ्गपरिमितानां कायिकमहोत्सवे - पारालिम्पिक्स् - गतदिने भारताय पदकत्रयमपि अलभत। अनेन आहत्य पदकलब्धिः १३ अभवत्। 

  ह्यः गुलिकाप्रक्षेपिका अवनी लेख्रा ५० मीटर् रैफिल् स्पर्धायां कांस्यं प्राप्तवती। अवन्याः द्वितीयपदकमेवैतत्।  पूर्वं १० मी.एयर् रैफिल् विभागे सुवर्णं प्राप्तवती आसीत्। 

   पुरुषाणाम् उत्कूर्दनस्पर्धायां [टि ६४विभागः] प्रवीणकुमारः रजतं शरप्रक्षेपणे हरविन्दर सिंहः कांस्यं च प्राप्तवन्तौ। अनेन भारतस्य अशेषपदकलब्धिः १३ अभवत्। तत्र सुवर्णद्वयं षट् रजतानि चान्तर्भवन्ति।