OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 16, 2021

 मासमेकं समुद्रे जलोपरि प्लाविते मृतशरीरे कोविड्रोगः  दृढीकृतः।

जले निमज्य मरणानन्तरं त्रिंशदधिकदिनं यावत् समुद्रे  जलोपरि प्लाविते मृतशरीरे  कोविड्रोगाणुः जीवति इति दुबाय् राष्ट्रस्य आरक्षकविभागस्य व्यावहारिकभिषग्वरैः (forensic doctors) आवेदितम्। मरणानन्तरं एकमासाधिकदिवसेषु मृतशरीरे कोविड्वैराणोः  सान्निध्यम् आसीत् इति भिषग्वराः अवदन्। प्रक्रमार्थं सप्तदशदिनानि मृतदेहप्रकोष्ठे ( mortuary ) पालिते अन्ये मृतशरीरे अपि कोविड् वैराणोः सान्निध्यं दृढीकृतमिति दुबाय् राष्ट्रस्य रक्षिपुरुषैः आवेदितम्। अवस्थाद्वये  सविशेषाध्ययनं (case study) कृत्वा विलम्बं विना निगमनं प्रकाशयिष्यते  इति व्यावहारिकभैषज्यदलस्य निर्देशकेन मेजर् डॉ. अहम्मद् अल्हाष्मिना निगदितम्। प्रायेण वैराणुः मनुष्यस्य मरणानन्तरं नश्यति इत्येव इतःपर्यन्तं गवेषणफलम्। किन्तु कोविड्वैराणोः सजीवसान्निध्यं मृतदेहे अस्ति इत्येतत् विशेषानुसन्धानाध्ययनविधेयं भवितव्यमिति तेन सूचितम्।