OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Friday, September 10, 2021

भारते १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीचक्रुः। 

  नवदिल्ली> राष्ट्रे  अष्टादशोपरिवयस्केषु १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्त इति ऐ सि एम् आर् संस्थायाः निदेशकः बलराम भार्गवः अब्रवीत्। ५८% जनाः  मात्रामेकां स्वीकृतवन्तः अद्यावधि ७२ कोटि मात्राणि वाक्सिनौषधानि वितीर्णनि। अधुना प्रतिदिनं विंशतिलक्षं जनाः  वाक्सिनानि स्वीकुर्वन्तः सन्ति। 

   वाक्सिनीकरणप्रवर्तनानि त्वरितोत्साहेन अग्रे गच्छन्त्यपि राष्ट्रं कोविड्महामार्याः द्वितीयतरङ्गे एव वर्तते इति स्वास्थ्यसचिवेन राजेष् भूषणेनोक्तम्। प्रतिदिनप्रकरणानां ६८% केरले एव। राज्यस्य सर्वाणि जनपदानि समेत्य आराष्ट्रं ३५ जनपदेषु टि पि आर् मानं प्रतिशतं दशाधिकमस्ति। आगामिषु दसरा, दीपावलिः, क्रिसतुमस् इत्यादिषु उत्सवेषु अतिजाग्रता करणीया इति सर्वकारेण निर्दिष्टम्।