OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, September 9, 2021

पारालिम्पिक्स् मेला परिसमाप्ता;  भारतस्य महल्लाभः। 

 टोक्यो> अङ्गपरिमितानां विश्वकायिकक्रीडामेलायाः - पारालिम्पिक्स्-अन्ते अभिमानस्य उत्तुङ्गश्रृङ्गे  भारतम्। पञ्चसुवर्णानि अभिव्याप्य १९ पदकानि सम्प्राप्य भारतेन पारालिम्पिक्स् चरितस्य श्रेष्ठतरं निर्वर्तनं विधत्तम्। पदकपट्टिकायां २४तमं स्थानं प्राप्तम्। 

   २०१६तमे वर्षे रियो पारालिम्पिक्स्' मध्ये प्राप्तानि सुवर्णद्वयसहितं पदकचतुष्टयमेव एतावत्पर्यन्तं भारतस्य श्रेष्ठतरं निर्वर्तनम्। अस्यां मेलायां पञ्चसुवर्णानि, अष्ट रजतानि, षट् कांस्यानि च भारतेन प्राप्तानि। पूर्वं समाप्ते ओलिम्पिक्स् महोत्सवे अपि पदकसप्तकं सम्प्राप्य श्रेष्ठतरं प्रकटनं प्रदर्शितमासीत्। 

  पारालिम्पिक्स् मध्ये चीनः ९६ सुवर्णानि समेत्य २०७ पदकैः प्रथमस्थानमवाप। ब्रिटनः द्वितीयं स्थानं प्राप्तवान्। तृतीयस्थानं तु अमेरिक्कया प्राप्तम्।