OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 20, 2021

 उल्कापतनेन भीमगोधिकासु नामावशेषासु जातासु भूमुखे भुजङ्गानां शुभकालः 

भूतलात् उल्कापतनेन भीमगोधिकासु (Dinosaur) नामावशेषासु जातासु  भुजङ्गाः अधुना दृश्यमानरीतिषु परिवर्तितः इति अध्ययनानि सूचयन्ति। भूविवरे निलीय तथा भक्षणं विना बिले  दीर्घकालम् उषित्वा च  उल्कापतनानन्तरलोके अतिजीवनाय भुजङ्गमाः शक्ताः जाताः।  विषये अस्मिन् 'बात्' विश्वविद्यालयस्य गवेषकैः कृतम् अध्ययनम्  Nature communications नाम प्रसिद्घायां विज्ञानवार्तापत्रिकायां प्रकाशितं वर्तते। इत्थं अतिजीवनक्षमाः भुजङ्गाः एव लोके सर्वत्र व्याप्ताः त्रिसहस्राधिकभेदैः परिणमिताः च। तेषां जीवाश्मं  (Fossil) निरीक्ष्य विविधकालेषु भुजङ्गानां जनितकभेदानि विशेषानुसन्धानविधेयं कृत्वा एव गवेषकाः एतादृशनिगमनेषु संप्राप्ताः।