OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 28, 2021

पाकिस्थाने जिन्नस्य प्रतिमा बलूच् लिबरेषन् सेनया स्फोटनेन भञ्जिता। 

इस्लामाबाद्> पाकिस्थाने बलूचिस्थान् मण्डले ग्यादर् नौकाश्रयनगर्यां जाते विस्फोटने पाकिस्थानस्य स्थापकनेतुः मुहम्मदलिजिन्नस्य प्रतिमा पूर्णतया भग्ना अभवत्। अस्मिन् संवत्सरादौ स्थापितायाः प्रतिमायाः पृष्ठतः स्थापितं स्फोटकवस्तु एव प्रस्फोटितम्। घटनायाः उत्तरदायित्वं बलूच् लिबरेषन् आर्मि नाम निरोधितसंघट्टनेन स्वीकृतम्। सुरक्षितमण्डलत्वेन परिगणिते प्रदेशे विनोदसञ्चारिणः इति व्याजेन आगतैः बलूच् लिबरेषन् आर्मि प्रवर्तकैः एव स्फोटकवस्तू स्थापितम् इति ग्वादरस्य  सेवानिवृत्तमुख्यः उपायुक्तः  (Deputy Commissioner (Major Rtd) ) अब्दुल् कबीर्खानेन प्रोक्तमिति बि बि सि उर्दू माध्यमेन प्रतिवेदितम्। अचिरेणैव अपराधिनः संगृहिष्यन्ते इति अब्दुल् कबीर्खानेन निगदितम्।