OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 25, 2021

 शीतीकरणं नावश्यकम्। भारतीयवैज्ञानिकैः जङ्गमा रासायनिकमधुसूदनी सम्पुष्टीकृता।

  कोलकत्ता> शीतीकरणं विना संरक्षितुं शक्या रासायनिकमधुसूदनी (insulin) भारतीयवैज्ञानिकसंघेन सम्पुष्टीकृता। मधुमेहरोगिणां सदा सर्वत्र नेतुं शक्यते इत्येतदेव अस्य विशेषता। कोलकत्ता बोस् इन्स्टिट्यूट्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल् टेक्नोलजि (हैदराबाद्) इत्येतायाः संस्थायाः वैज्ञानिकानां परिश्रमेणैव औषधमेतत् सम्पुष्टीकृतम्। औषधस्य 'इन्सुलोक्' इति तात्कालिकं नाम दत्तमस्ति। आचार्यस्य जगदीष् चन्द्रबोसस्य नाम दातुं प्रार्थनापत्रं शास्त्रवैज्ञानिकविभागाय समर्पितम् इति बोस् इन्स्टिट्यूट् संस्थायाः वैज्ञानिकेन शुभ्रांशु चाट्टर्जिना आवेदितम्।