OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 27, 2021

अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति - यू एन् सभायां  नरेन्द्रमोदी।

न्युयोर्क्> संयुक्तराष्ट्रसभायां भाषणावसरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्  अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति इति। केचित् राष्ट्राः अदङ्कवादाः आयुधरूपेण स्वीकृताः सन्ति,  आविश्वम् आतङ्कवादप्रवर्तनानि व्याप्यमानानि सन्ति  इति   सः अवदत्। पाकिस्थानमधिकृत्य परोक्षरूपेण  विमर्शनं कृत्वा तेन उक्तं यत् अफ्गानिस्थानं स्वार्थलाभाय उपयोक्तुम्   यस्यकस्यापि अधिकारः नास्ति। अफगनस्य नागरिकाः विश्वराष्ट्रेण संरक्षितव्याः इत्यपि तेनोक्तम्। कोविड्बाधया मृतेभ्यः श्रद्धाञ्जलयः समर्प्य २० निमेषपर्यन्तं सः अभाषयत्।