OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 11, 2021

 तालिबानेन सह चर्चा अनुवर्तनीया - यू एन्।

यूनाइटेड् नेषन्स्> अफ्गानजनतायाः हितं संरक्षणं च पुरस्कृत्य तालिबानेन सह निरन्तरचर्चा अनुवर्तनीया इति यू एन् प्रतिनिधिसभा राष्ट्रगणं प्रति निरदिशत्।  सचिवप्रमुखः अन्टोणियो गुट्टरसः उक्तवान् यत् अफ्गानजनतां प्रति ऐक्यदार्ढ्यं विज्ञाप्य जनहिततत्वेषु संस्थाय चर्चाः अनुवर्तयितुं अन्ताराष्ट्रसमूहः सज्जः भवेत्। 

   आर्थिकभञ्जनेन अफ्गानिस्थाने लक्षशः जनानां मृतिमपाकर्तुं राष्ट्राणि यतेयुरिति सभया अपेक्षितम्। तालिबानेन प्रख्यापितः नूतनसर्वकारः संतृप्तिं न प्रददातीति सभया सूचितम्।