OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 21, 2021

 जम्मूकश्मीरे सैनिकानाम् उदग्रगानं भग्नमभवत्।

प्रतिकूलं वातावरणमेव अपघातस्य कारणम्।

श्रीनगरम्> भारतीयस्थलसेनायाः उदग्रयानं जम्मूकश्मीरे भग्नमभवत्। उदंपूर जिल्लायां शिवगडदारे एव घटनेयं प्रवृत्ता। उदग्रयाने द्वौ सैनिकौ आस्ताम्। हिमपातेन जातः दृष्टिभङ्गः एव अपघातस्य कारणमिति आरक्षिदलेन आवेदितम्। अपघातस्थानम् आगताः रक्षाप्रवर्तकाः व्रणितौ सैनिकौ तत्र अपश्यताम् इति उदंपुरस्य सामान्य- उपारक्षकाधिकारिणा (D l G) सुलैमान् चौधरिणा आवेदितम्। वैमानिकः उपवैमानिकश्च उदग्रयाने आस्ताम्। आगस्त् मासे सेनायाः अन्यत् उदग्रयानमपि भूतले पतित्वा भग्नमासीत्। प्रतिकूल वातावरणेन उत वैमानिकेन आपत्कालीनावतरणाय परिश्रममाणावसरे वा अपघातः सञ्जातः इति स्पष्टता नास्ति इति सुलैमान् चौधरिणा प्रोक्तम्।