OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 28, 2021

श्वेतकपोल- ऊर्णनाभवानराः वंशनाशभीषाम् अभिमुखीकुर्वन्ति।

दावाग्नौ दग्ध्वा आमसोणस्था: जीवि वर्गाः।

आमसोण् वनान्तर्भागे संभूतः दावाग्निः तत्रस्थान् प्रतिशतं नवतिमितं सस्यान् जन्तून् च अबाधत इति अध्ययनानि सूचयन्ति। १४००० जातिविशेषेषु अन्तर्गतान् प्रतिशतं ९३-९५ पर्यन्तं दावाग्निः बाधितः इति 'नेचर्' मध्ये प्रकाशितमस्ति। पूर्वोक्तवानराणां आवासपरिधौ प्रतिशतं पञ्चमितं मण्डलेषु दावाग्निः बाधितः। विंशति संवत्सराभ्यन्तरे प्रतिशतं पञ्चमितं नष्टमभवत् इत्येतत् भीतिजनकमेव। यु एस, ब्रसीलः, नेतर्लण्ड् प्रभृतीनां विश्वविद्यालयस्थानां गवेषकानां नेतृत्वे एव अध्ययनं प्रचलितम् । आमसोण् वनेषु २००१ संवत्सरादारभ्य २०१९ संवत्सरपर्यन्तं संभूतस्य दावाग्निबाधायाः फलपरिणाम एव अध्ययनविषयः अभवत्।