OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 7, 2021

शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन् 

चित्रग्रहणम् - ए एफ् पि 

 काबूल्> तालिबानेन प्रशासनं संग्रहीत्यनन्तरम् अफ्गानिस्थानस्य शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन्। कक्ष्यासु तालिबानस्य कठिननियम-प्रयोगानन्तरम् अध्यापकाः छात्राः च अनिश्चितत्वे आपतिताः इति अनेन प्रतिवेदनेन संसूच्यते। 1996-2001 संवत्सरेषु स्त्रीणां स्वातन्त्यस्योपरि श्रृङ्खलां बद्ध्वा उच्चशिक्षातः निवार्य कृतं शासनम् अधुना न भविष्यति इति वाग्दत्तमासीत् । किन्तु महाविद्यालयस्य कक्ष्यायां गन्तुम् अनुज्ञा अस्ति तथापि वस्त्रधारणे आसनव्यवस्थायां बाल बालिकयो: सतीर्थ्यत्वम् इत्यादि विषयेषु  कठिन-नियन्त्रणमेव तालिबानेन निर्दिष्टं वर्तते। बालिकाः शरीरमखिलम् आच्छादितव्यम्। मुखावरणं पूर्णतया भवित व्यम्। कक्ष्यासु बालिका बालकयोः मध्ये आच्छादनपटः अनिवार्यः। किन्तु अस्य निर्देशस्य पालने छात्राः विमुखाः भवन्ति। अतः एव अस्माकं विश्वविद्यालयस्य पिधानं विना विलम्बं भविष्यति इति गर्जिस्थानस्य निजीय विश्व-विद्यालयस्य निर्देशकः नूर् अलि रह्मानि अवदत्। सोमवासरे कक्ष्याः शून्याः आसन् इत्यपि सः अवदत्।