OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 11, 2021

 बहिराकाशनिलये चलनचित्रं ग्रहीतुं  रष्यः।


  मोस्को> अन्ताराष्ट्रियबहिराकाशनिलये प्रथमं चलनचित्रं निर्मातुं सज्जतां प्राप्नोति  रष्ययः। नटी युलिया पेरेसिल्ड् तथा चित्रोत्पादकेन  क्लिं षिपेन्को सहितेन चलनचित्रकाराणां संघः ओक्टोबर् मासे पञ्चमे दिने बहिराकाशनिलयं प्रति प्रस्थास्यति। साहाय्यार्थं अन्ये द्वे, रष्यायाः बहिराकाशयात्रिकः लैग् आर्तेमिये च संघे भविष्यतः।  सोयस् एम् एस्१८ आकाशबाणः  एव संघं बहिराकाशनिलयं प्रति नयति। बहिराकाशनिलये प्रथमतया चित्रीकरिष्यमाणस्य चलनचित्रस्य चलञ्च् इति नाम  दत्तमस्ति इति रष्यायस्य रोस्कोस्मस् नाम बहिराकाश -विज्ञापनसंस्थया   अवेदितम्। भूमौ प्रत्यागन्तुम् अपि अशक्यं रोगबाधितं यात्रिकं शस्त्रक्रियां कर्तुं नियुक्तायाः वनिताभिषक्वरायाः कथा एव चलनचित्रस्य प्रतिपाद्यमिति रष्यस्य  आर् ऐ ए नाम वार्तामाध्यमेन प्रतिवेदितम्।