OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, September 28, 2021

 ऐस्लान्टे महिलाधिकसंख्याका जनसभा। 

  रेय्कजाविक्> यूरोप् भूखण्डे ऐस्लान्ड् राष्ट्रस्य संसद् निर्वाचने इदंप्रथमतया अधिकाधिकेषु स्थानेषु महिलास्थानाशिनः विजयीभूताः। ६७ अङ्गयुक्तायां जनसभायां ३३ स्थानेषु महिलाः एव चिताः। २०१७ तमस्य संसदि केवलं नव महिलासदस्या एवासन्। संसदि महिलानां कृते प्रातिनिध्यारक्षणं किमपि नास्तीति सविशेषश्रद्धामर्हति। 

   ऐस्लान्ड् राष्ट्रे कातरिन् जेक्कब्स् डोट्टिर् नामिका एव इदानींतनप्रधानमन्त्री। तस्याः नेतृत्वे विद्यमानस्य राजनैतिकदलसंघाय एव अस्मिन् वारे अपि अग्रगामित्वम्।