OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, September 18, 2021

दिवसेनैकेन २.५० कोटि मात्रामितं वाक्सिनं प्रदाय भारतं प्रथमस्थानमवाप्तम्।

 नवदिल्ली> कोविड् वाक्सिनीकरणे नूतनाङ्गीकारेण सह भारतराष्ट्रम् । इदंप्रथमतया राष्ट्रे प्रतिदिन-वाक्सिनीकरणं सार्धद्विकोटिः अतीतम्। ह्यः सायंकाले २.२ कोटिः अतीतम्। विगतायां रात्रर्यां सार्धद्विकोटिः अधिगता च। नरेन्द्रमोदिनः एकसप्ततितमे जन्मदिनोत्सवदिने अस्मिन् वाक्सिनीकरणे विश्वस्मिन् प्रथमपदं प्राप्तुमेव सर्वकारेण संलक्षितम्। दिवसेनैकेन अधिकवाक्सिनं दत्तेषु राष्ट्रेषु प्रथमस्थानम् चीनाराष्ट्रस्य आसीत्। जून् मासस्य२४ तमे दिनाङ्के चीनाराष्ट्रे दिवसेनैकेन २.५४ कोटि मात्रामितं वक्सिनं प्रदत्तम् आसीत्।