महिला एष्यन् चषकः।
अद्य भारत-श्रीलङ्कयोः अन्तिमस्पर्धा।
दुबाय्> महिलानाम् एष्याचषक टि-२० क्रिकटक्रीडायाः अन्तिमप्रतिद्वन्द्वे भारतं श्रीलङ्कया सह स्पर्धते। पूर्वान्त्यचरणस्य प्रथमस्पर्धायां बङ्गलादेशं पराजित्य आसीत् भारतस्य अन्तिमस्पर्धाप्रवेशः। ह्यः सम्पन्ने द्वीतीये पूर्वान्त्यप्रतिद्वन्द्वे श्रीलङ्का पाकिस्थानं चतुर्णां द्वारकाणां पराजापयत। प्राप्ताङ्कसूचिका - पाकिस्थानं २० क्षेपणचक्रेषु १३०/५।श्रीलङ्का १८.५ क्षेपणचक्रेषु १३४/६।