सीरियायां प्रवृत्ताक्रमणेषु इस्लामिकस्टेट गुल्मस्य प्रवक्ता मृत्युमुपगतः
अमाक़न्यूज़ इति वार्ताभिकरणेन प्रोक्तं यत् एजेंसी एलप्पो नगरे सैन्याक्रमणे अबू-मुहम्मद-अल-अदनानिनः मृत्युः संजाता. असौ सुदीर्घकालात् आईएस गुल्मस्य नेतृत्वं अकरोत् | इदानीं तस्य मृत्योः कारणं स्पष्टं नास्ति | मई मासे एकस्मिन् श्रव्य संदेशे अदनाना मुसलमाः पश्चिमी देशेषु आक्रमणाय अध्यर्थिताः |OUR YouTube Channels 1. SampratiVartah | 2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah
marquee
Wednesday, August 31, 2016
महारष्ट्रायां अग्निशाखावनानि (कण्टल्) इतःपरं संरक्षितवनम्।
मुम्बई>महाराष्ट्र राज्ये सर्वकारभूमौ विद्यमानानि समस्तानि कण्टल् वनानि संरक्षणीयवनमण्डलरूपेण विज्ञापितानि। कण्टल् वनं समस्तं संरक्षणीयवनमिति प्रख्यापितं प्रथमराज्यं भवति महाराष्ट्रा!महाराष्ट्रस्य ७२० कि.मी.परिमिते समुद्रतीरे २९८३९ हेक्टर परिमितानि अग्निशाखावनानि विद्यन्ते! तत्र १६५५४हेक्टर् परिमितानि सर्वकाराधीने भवन्ति!
महाराष्ट्रस्य अग्निशाखाप्रदेशेभ्यः वनत्वविवक्षा दातव्येति मुम्बई उच्चन्यायालयेन २००५ तमे वर्षे आदिष्टमासीत्।
पश्चिमबंगालः परं बंगालः।
कोल्कोत्ता>पश्चिमबंगराज्यं इतःपरं बंगाल् इति नाम्नि विज्ञायते। बंगालीभाषायां बंग्ल इति राज्यस्य नाम।विधानसभायां एतदधिकृत्य प्रमेयः ३१सामाजिकान् विरुध्य १८९ सामाजिकानां मतदानैः अङ्गीकृतः।
Tuesday, August 30, 2016
पालयन्ति शुनकैः वीथयः
![]() |
WhatsApp तः लब्धं चित्रम् |
कोच्ची > केरळेषु मार्गाणि शुनकैः पूरिताः इति भान्ति। केन्द्र मन्त्रिणा मेनका गान्धिना वन्ध्यीकरणं कृत्वा वीथीशुनकानां संख्या नियन्त्रणाय आदेशः दत्तः असीत्। आदेशपालने केरळस्य शासकाः विमुखाः आसन् इति मेनका गान्धीमहोदयया उक्तम्। प्रतिदिनं बहवः जनाः शुनकस्य आक्रमणेन व्रणिताः । वयो भेदं विना सर्वान् आक्रमितुं शक्ताः भवन्ति शुनकाः। वार्तामाध्यमेषु शुनकस्य चरितानि सदा परामृष्टाः । वाट्स् आप् फेस् बुक् आदि नूतन माध्यमेषु हास्यचित्राणि प्रचलन्ति। जनैः तेषां रोषप्रकाशनाय नव माध्यमानि उपयुज्यन्ते च।
भरतवाक्यम् - शासकाः जनानाम् पालकाः भवन्तु ।
वैद्यबिरुदप्रवेशनम् - एकीकृतशुल्कव्यव्यवस्था न युक्ता।
तिरुवनन्तपुरम् > (केरलम्) > वैद्यबिरुदप्रवेशनाय स्वाश्रयशैक्षिकसंस्थानाम् एकीकृतशुल्कव्यव्यवस्था इति निर्देशम् अङ्गीकर्तुं न शक्यते इति केरलसर्वकारः।एकीकृतशुल्कव्यव्यवस्था इति निर्देशः अप्रायोगिकः इति आरोग्यविभागसचिवया के के शैलजा महोदयया सूचितम्। किन्तु एकीकृतशुल्कव्यव्यवस्था अङ्गीक्रियते चेत् प्रवेशनस्य ५०% स्थानानि सर्वकारविभागाय दास्यतीति स्वाश्रयशैक्षिकसंस्थापक्षतः निर्देशः दत्तः अस्ति। किन्तु एतदङ्गीकर्तुं सर्वकारः सन्नद्धः नाभवत्। तथा च वैद्यबिरुदप्रवेशनं सम्बन्ध्य सर्वकार-स्वाश्रयशैक्षिकसंस्थयोः तर्कः अपरिहार्य इव वर्तते।
ओलिम्पिक्स् पतकविजेतृभ्यः खेल् रत्न पुरस्काराः समर्पिताः।
नवदेहली > रियो ओलिम्पिक्स् २०१६ मध्ये भारतस्य अभिमानपात्रेभ्यः पि.वि सिन्धू , साक्षी मालिक् , दीपा कर्माकर् , जित्तु राय् इत्यादिभ्यः कायिकरत्नेभ्यः राष्ट्रं खेल्-रत्न पुरस्कारम् असमर्पयत्। देशीयकायिकदिनसम्बन्धतया नवदहल्यां संघटिते कायिकपुरस्कारदानयोगे राष्ट्रपतेः प्रणब् मुखर्जी महोदयात् एते पुरस्कारं स्वीकृतवन्तः। एतैः सह योगे १५ क्रीडकेभ्यः अर्जुनपुरस्कारः,६ परिशीलेकेभ्यः द्रोणाचार्यपुरस्कारः,त्रयाणां कृते ध्यान्चन्द् पुरस्कारः च समर्पितः।
संस्कृतेन विना आयुर्वेदस्य अध्ययनं न शक्यते -श्रीनिवासवरखेडि

सौराष्ट्रनर्मदा-अवतरणसेचनयोजना
प्रधानमंत्री अद्य राजकोटे सौनी इति सौराष्ट्रनर्मदा-अवतरणसेचनयोजनाया प्रथमचरणस्य उद्घाटनं करिष्यति | अस्याः योजनायाः अन्तर्गतं सौराष्ट्रस्य जलाशयाः नर्मदायाः जलेन प्रपूर्यिष्यन्ते।
अमेरिकाभारतयोः लॉजिस्टिक्स इति संभारतन्त्रसन्धिः
भारत अमेरिका देशयोः मिथः परस्परं सैन्यस्थलानां उपयोगार्थं लॉजिस्टिक्स इति संभारतन्त्रविषयकं सैन्यसन्धिः हस्ताक्षरैः प्रमाणीकृतः | येन देशद्वयाभ्यां परस्परं जल, थल, वायु सैन्यस्थलानां विकासः, विनिर्माणं च समेत्य विविध गतिविधीनां आदान प्रदानं संभविष्यति |वार्ताः
* केन्द्रीयगृहमंत्रिणः राजनाथसिंहस्य नेतृत्वे सर्वदलीयं शिष्टमण्डलं सितम्बरमासस्य चतुर्थे दिने जम्मूकाश्मीरं प्रयास्यति । अद्य काश्मीरोपत्यकायां बहुत्र निषेधाज्ञा इति संचाररोधादेशः निराकृतः।
* भारत- म्यांमाभ्यां नवीकरणीयोर्जा पारम्परिकौषधव्यवस्थां समेत्य सन्धिचतुष्टकं हस्ताक्षरैः प्रमाणितम् ।
* उच्चतमन्यायालयेन बुलंदशहरदुष्कृति प्रकरणस्य राज्यतो बहिर्वादश्रवणविषयिन्यां याचिकाविषये उत्तरप्रदेशप्रशासनाय अथ राज्यमंत्रिणे आजमखानाय अध्यर्थनापत्रं प्रख्यापितम् ।
* राष्ट्रपतिना पी.वी.सिंधु साक्षीमलिकः दीपाकर्माकरः जीतूरायश्च राजीवगांधीखेलरत्न इति क्रीडापुरस्कारेण बहुमानिताः ।
* यमन राजधान्यां अदननगर्यां सैन्य शिविरे आत्मघात्याक्रमणे बम्ब विस्फोटेन न्यूनान्न्यूनं षष्टि जनाः कालकवलिताः संसूच्यन्ते ।
Monday, August 29, 2016
जीववायुं स्वीकृत्य उड्डयमानः आकाशबाणः - भारतस्य प्रयत्नफलम्।
श्रीहरिक्कोट्ट> स्क्राम् जेट् यन्त्रस्य परीक्षणविजयः बाह्याकाश-गवेषणमण्डले भारतस्य गतिवेगं वर्धिष्यते। न्यून व्ययेन किन्तु अन्यून वेगेन बाणान् बाह्याकाशं नेतुं 'स्क्राम् जेट्' सङ्केतेन शाक्यते इति ऐ०एस्० आर् ०ओ संस्थया उक्तम्। श्री हरिकोट्टायाः सतीष् धवान् केन्द्रतः रविवासरे प्रातः षट् वादने आसीत् विक्षेपणम् । ज्वलनाय प्राणवायुः अन्तरीक्षतः स्वीक्रियते इत्येव भवति अस्य बाणस्य विशेषः। विजयविक्षेपणस्य अन्ते बाणः वंग समुद्रे निर्दिष्टस्थाने पतितः। शब्द्स्य षट्गुणित वेगेन गन्तुं शक्यते बाणस्य इति सर्वान् अतिशेते भारतीया इयं बाणविद्या।Sunday, August 28, 2016
रेल्यानं पथविभ्रंशितम्। गतागतं स्थगितम्।
यात्रिकाः सुरक्षिताः ।
कोच्ची > केरळे एरणाकुळं जनपदे अङ्कमाली रेल् निस्थानसमीपे करुकुट्टीप्रदेशे अनन्तपुरीतः मंगलापुरम् गम्यमानं एक्स्प्रेस शक्टम् रात्रौ पञ्चोन त्रिवादने (२.५५) आपदि प्रविष्टम् यानस्य S3 आरभ्य 12 पर्यन्तं शयनपेटिका तथा ए1 बि1 पेटिका च रेलतः भ्रंशिताः अभवन्। यात्रिकाः सुरक्षिताः इति रेल् अधिकारिणः सम्प्रतिवार्तां प्रति अवदत्।
बहूनि दीर्घदूरयानानि व्यतिचलितमार्गानि कृतानि। अन्यानि यानानि समीपनिस्थानेषु यात्रां समापयन्ति स्म।
दुर्घटनाकारणमधिकृत्य अन्वेषणम् आरब्धम्। अङ्कमालीतः अनन्तपुरी तथा चालक्कुटीतः मङ्गला पुर-पर्यन्तम् उत्तर दक्षिण भागेषु रेल्यानानि अधुना चालयन्ति। सर्वकारीय लोकयानानी च विशेषसेवां कुर्वन्ति।
दुर्घटनाकारणमधिकृत्य अन्वेषणम् आरब्धम्। अङ्कमालीतः अनन्तपुरी तथा चालक्कुटीतः मङ्गला पुर-पर्यन्तम् उत्तर दक्षिण भागेषु रेल्यानानि अधुना चालयन्ति। सर्वकारीय लोकयानानी च विशेषसेवां कुर्वन्ति।
पाकिस्तानप्रशासितकश्मीराय साहाय्यपुटकस्योद्घोषणा भविष्यति।
नवदेहली>प्रधानमन्त्री नेन्द्रमोदी पाकिस्तानप्रशासितकश्मीरस्य अथ च गिलगितबल्तिस्तानक्षेत्रस्य विस्थापितजनानां कृते शीघ्रमेव 2000 कोटिरुप्यकाणां साहाय्यपुटकस्य उद्घोषणा करिष्यति, विस्रंभवर्तास्रोतोभिः परिज्ञायते यदेतदर्थं प्राशासनिक सज्जता पूर्णतां गतासाहाय्यपुटकस्य विस्तृतविवरणस्य निर्माणं गृहमंत्रालयेन क्रियते, मन्त्रिमण्डलस्य संस्तुत्यर्थं च प्रेषयिष्यते, जम्मूकाश्मीरस्य सर्वकारेण 36,348 लाभार्थि परिवाराणां परिज्ञानं विहितमस्ति।
तुर्की देशे व्योमाक्रमणम्
ब्रिटेनस्थे सीरियन ऑब्ज़रवेटरी फॉर ह्यूमन राइट्स इति संघटनेन अवादि यत् सीरियायां तुर्क्याः सद्य प्रवर्तिते व्योमाक्रमणे चत्वारिंशत् जनानां 40 मृत्युः संसूच्यते। एकस्मिन् अन्ये आक्रमणे तुर्की सैन्यबलेन प्रतिपादितं यत् मृतानां संख्याः पञ्चविंशतिः अस्ति। एते समेsपि कुर्द चरमपंथानुयायिनः सन्ति।
प्रधानमन्त्री-मेहबूबा मेलनम् अभवत्।
नवदिल्ली> जम्मु-काश्मीरविषये पाकिस्तानस्य कुमार्गः अपलपनीय इति काश्मीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ती। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनानन्तरं माध्यमप्रवर्तकान् प्रति भाषमाणा आसीत् सा। काश्मीरस्य अधित्यकायां विषयान् रूक्षीकर्तुं पाकिस्तानेन प्रकोपनं कृतमिति मेहबूबा आरोपितवती। भारतेन दत्तं सौहृदं प्रतिदातुं पाकिस्तानः विमुखतां प्रदर्शयति। काश्मीरप्रतिसन्धिं परिहर्तुं समस्तविभागैः सह चर्चां कर्तुं सविशेषासूत्रणम् आवश्यकमिति मेहबूबया निर्दिष्टम्।Saturday, August 27, 2016
अध्यापकदिने कक्ष्या चालनाय मुख्यमन्त्री।
![]() | |
-हास्य चित्रं-मलयालमनोरमा |
अनन्तपुरी> केरळराज्ये एव मुख्यमन्त्री प्रिणराय् विजयः स्वस्यमन्त्ररिपरिवारेण सह कक्ष्या चालयिष्यन्ति। अट्टक्कुळङ्ङर केन्द्रीय विद्यालये कक्ष्याचालनस्य उद्घाटनं मुख्यमन्त्री पिणराय् विजयः करिष्यति। धन- स्वास्थ्य-तद्देश-शिक्षा मन्त्रिणः च कक्ष्यां चालयिष्यन्ति। न केवलं मन्त्रिणः किन्तु संसदङ्गाः च कक्ष्याम् चालनीयाः इत्येवं निदेशः प्रसारितः आसीत् ।
राज्यस्तरीयसंस्कृतदिनाचरणं कण्णूरे सवैभवं प्राचलत्




वैद्यकप्रवेशः - सर्वकारादेशस्य उच्चन्यायालयेन अवष्टम्भनम्।

भारते अन्तर्जालाधिष्ठितपातकेषु(cyber crimes) परिमिता वृद्धिः।
नवदिल्ली > गतेषु त्रिषु संवत्सरेषु भारते अन्तर्जालाधिष्ठितेषु अपराधेषु प्रतिशतं ३५० परिमितस्य वृद्धिः इति परिपठनम्।इतःपूर्वं चीना, अमेरिका, तुर्की, ब्रसील्, पाकिस्तान् इत्यादीनि राष्ट्राणि आसन् अस्मिन् विषये प्रथमश्रेण्याम्।
अन्तर्जाले तीक्ष्णमतीनां दूरवाणीनां च वर्धितः उपयोगः भारतं सैबर् पातकीनां प्रियस्थानम् अकारयत् इति परिपठनम् अभिप्रैति।
Friday, August 26, 2016
भाटकगर्भपात्राय निरोधः।
नवदिल्ली - भाटकरूपेण गर्भपात्रस्य विनिमयं निरुध्य केन्द्रसर्वकारः नियमं करोति। धनं दत्वा गर्भपात्राणि विनिमयं कुर्वन्तीं व्यवस्थां निरोद्धुम् उद्दिश्य सरोगसि नियन्त्रण विधेयकाय केन्द्रमन्त्रिसभया अङ्गीकारः लब्धः।किन्तु अनपत्यदुःखमनुभवन्त्योः भारतीयदम्पत्योः धनविनिमयं विना निस्स्वार्थतया सन्निकर्षबन्धूनां गर्भपात्राणि उपयोक्तुं शक्यन्ते। विदेशीयाः, एन् आर् ऐ पौराः, इत्यादिभ्यः अनुमतिः न लभ्यते।
केरळे आपूर्तिपत्रम् उपडिसंम्बरमासम्।
अनन्तपुरी - केरळराज्ये देशीयभक्ष्यसुरक्षानीतिम् आयोजयितुं निश्चयः मन्त्रिसभया कृतः। तदनुबन्ध्य नवीनम् आपूर्तिपत्रं डिसम्बर् मासाभ्यन्तरे वितरिष्यति।भक्ष्यधान्यार्हान् निश्चिनोतुं राज्यस्तरीयश्रेणीकरणं कर्तुमपि निश्चितम्। भक्ष्यवस्तूनां सुगमवितरणाय ब्लोक् तले सम्भरणशालाद्वयनिर्माणं करिष्यति। भोगापूर्तिवस्तूनां समस्तविक्रयशालानां क्रियावाहित्वं वितरणस्य नियन्त्रणं च सप्लैको संस्थया निर्वूढिष्यते।
Thursday, August 25, 2016
स्कोर्पीन् अन्तर्वाहिनी - सुप्रधानरहस्यानि न बहिरागतानि।
नवदहली > स्कोर्पीन् अन्तर्वाहिनीनां सुप्रधानरहस्यानां बहिर्गमनं न जातम् इति भारतीयनाविकसेना। विषयोऽयं राष्ट्रसुरक्षासम्बन्धः इत्यतः आभ्यन्तरस्तरे अन्ताराष्ट्रस्तरे च अन्वेषणम् आवश्यकं भवति। फ्रान्स् राष्ट्रेण सह परिपाल्यमानं नयतन्त्रबान्धवम् उपयुज्यैव अन्वेषणं करिष्यतीति नाविकसेनया सूचितम्। विषयोऽयम् अतीव गौरवतया एव फ्रञ्च् सर्वकारेण समीक्ष्यते इति भारतस्थफ्रञ्च् स्थानपतिना सूचितम्। अपि च स्कोर्पीन् अन्तर्वाहिनीनां रहस्यांशानां बहिर्गमनम् इत्यस्मिन् विषये भारतेन फ्रञ्च् आयुधनिर्माणसङ्घस्य विशदीकरणम् अभ्यर्थितम्।
भारतस्य जलान्तर्गामिनौकायाः रहस्यसूचनाः परिस्रवितानि स्म।
नवदिल्ली>भारतस्य अत्यन्ताधुनिकायाः स्कोर्पीन् नामधेये विख्यातायाः समुद्रान्तर्गामिमहानौकायाः कार्यक्षमासहिताः साङ्केतिकसूचनाः बहिर्गतानीति दि ऒस्त्रेलियन् इति काचन ऒस्त्रेलियन् दिनपत्रिका।भारतस्य प्रतिरोधरहस्यानि परिस्रवितानि इति विषये रक्षामन्त्री मनोहर परीक्करः वृत्तान्तकथनपत्राय आदिशत्।
परिस्रवितानि रहस्यानि एतानीति उच्यते - नौकां प्रति सूचनास्वीकारतरङ्गदैर्घ्यस्य मानं , बहिर्गमयतां शब्दतरङ्गानां मानकं, गम्यमाना अगाधता , आक्रमणरीतिः , कार्यक्षमता इत्यादयः।
मृगसंरक्षणफलकवृन्देन श्वानहत्या निषेधः घोषितः।
अनन्दपुरी>वीथ्याम् इतस्ततः अटमानानाम् शुनकानां हननाय राज्यसर्वकारैः घोषितनिर्देशः अनुशासनविरुद्धः इति देशीयमृगसंरक्षणवृन्देन व्यक्तीकृतः। सर्वकाराणाम् निदेशोयम् सर्वोच्चन्यायालयघोषणस्य लड़्घनमित्यपि समितेरध्यक्षेण डा आर् एम् खर्ब् महाशयेन उक्तम् । सर्वकारैः एषः निर्देशः पुनर्विचिन्तनीयः इत्यपि तेन सूचितम् ।
देशीयाध्यापकदिने केरळानां मुख्यसचिवः कक्ष्यां प्रचालयिष्यति।
तिरुवनन्तपुरम् > अस्य वर्षस्य देशीयाध्यापकदिने केरलानां मुख्यसचिवः पिणरायि विजयः कक्ष्यां प्रचालयिष्यति। तिरुवनन्तपुरे अट्टकुलङरा सेन्ट्रल् उच्चविद्यालये एव देशीयाध्यापकदिनस्य औद्योगिककार्यक्रमः।'जीवितशैली' इत्यस्मिन् विषये भवति मुख्यसचिवस्य कक्ष्याचालनम्। मद्यं, उन्मादकवस्तूनि,धूम्रपानं, आलस्यं,जीवितशैलीरोगाः, अनारोग्यभक्षणक्रमः इत्यादीन् प्रतिरोद्धुं छात्रसमूहस्य शक्तीकरणम् एव मुख्यं लक्ष्यम्। मुख्यसचिवेन सह अन्यैः सचिवैः , सामाजिकैः च एकैकस्मिन् विद्यालये कक्ष्याचालनं करणीयम् इति सचिवानां योगे निश्चितं वर्तते।
संस्कृते बाल-कविता पाठोत्सवः।
पुदुच्चेरी >पुदुच्चेरीस्थः संस्कृत -बाल -साहित्य परिषदेन संस्कृत बाल-कविता-पाठोत्त्सवः समायोज्यते । देहलिस्थस्य श्री अरविन्दाश्रमस्य परिसरे सेप्तंबर् मासस्य नवमेदिनाङ्गे सायं पञ्च वादने अनुष्ठास्यते । स्वस्य कविता श्रावयतुं तत्र सन्दर्भः लभ्यते। सर्वोवोत्तम बालकवितायाः कृते बाल साहित्य परिषदेन विशेष सम्मानः गौरवं धनं च प्रदास्यते इति परिषदस्य निदेशकेन डाँ सम्पदानन्दमिश्र महोदयेन उक्तम्। सम्पर्क सूची - sampatanandamishra@gmail.com / 09952888350व्याकरणवर्गः संस्कृत - शिक्षकाणां कृते
संस्कृतशिक्षकाणां कृते संस्कृतभारती मध्यभारतप्रान्तेन आयोजयिष्यमाणः "द्वि-दिवसीयः व्याकरणवर्गः"
वर्गस्थानम् = राष्ट्रियसंस्कृतसंस्थानं भोपालपरिसरः, संस्कृतमार्गः वागसेवनिया, भोपालम्।
(वर्गस्यावधिः = 11-12, सितम्बर 2016)
@- वर्गेSस्मिन् व्याकरणमधीतुं ये इच्छन्ति ते कृपया संस्कृतकार्यकार्तृभिः सह सम्पर्कं ।
# - वर्गविषये इतोSप्यधिकं संज्ञानार्थं दूरभाषक्रमांकेSस्मिन् सम्पर्कं कुर्वन्तु -
श्री पवनद्विवेदी, संस्कृतभारती, महानगरसंयोजकः भोपालम्। मो. +91 7898996363
गान्धिवधः- उच्चतरन्यायालये राहुल् गान्धिनः विशदीकरणम्।
नवदहली > गान्धिवधे राष्ट्रिय स्वयंसेवकसङ्घस्य योगदानमस्तीति न उद्दिष्टमिति विशदीकरणेन सह राहुल्गान्धी। २०१४ तमस्य निर्वाचनसम्बन्धे एकस्मिन् योगे महात्मागान्धिनः वधे राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमस्तीति राहुलेन उक्तमासीत्। परामर्शोऽयं विवादः अभवत्। एतत्सम्बन्ध्य राजेष् महादेवकुन्दे नामकेन युवकेन राहुलस्योपरि महाराष्ट्रायां न्यायालये अपकीर्तिव्यवहारः समर्पितः आसीत्। एतस्य विशदीकरणरूपेण उच्चतरन्यायालये समर्पितायां सत्यप्रस्तावनायां, राष्ट्रियस्वयंसेवकसङ्घस्य योगदानमिति न उक्तं, किन्तु तत्सम्बन्धाः केचन जनाः इत्येव मया उद्दिष्टाः इति सः विशदीकरणम् अयच्छत्। राहुलस्य कृते प्रमुखः अभिभाषकः कपिल् सिबलः न्यायालये उपस्थितिम् अकरोत्।
जयललितायाः उपरि उच्चतरन्यायालयस्य रूक्षविमर्शः।

शब्दातिवेगक्षेपणायुधं युद्धविमाने योजयित्वा भारतव्योमसेना - अद्भुतस्तब्धाः बृहच्छक्तयः।
जोध्पूर् > शब्दादिजवं क्षेपणास्त्रं ब्रह्मोस्, व्योमसेनायाः 'सुखोय्' युद्धविमाने संयुज्य परीक्षणं कर्तुं भारतम्। व्योमसेनया आगस्त् २४ तः २६ पर्यन्तं जयसालमीरस्य पोखराने क्षेपणायुधपरीक्षणं क्रियते। रष्यया निर्मितं भवति 'सुखोय्' युद्धविमानम्। व्योमसेनायाः औद्योगिकं ब्रह्मोस् विक्षेपणं नवंबर् मासे वा डिसम्बर् मासे वा भविष्यति। प्रतिरोधमण्डले भारतस्य नूतनप्रगतिं अन्यानि राष्ट्राणि अद्भुतेनैव निरीक्षन्ते।
गृहमन्त्रिणः जम्मूकाश्मीरयात्रा
गृहमन्त्री राजनाथसिंहः हिंसाप्रभावित काश्मीरोपत्यकायां सुरक्षाव्यवस्थायाः समीक्षां विधातुं द्विदिवसीय काश्मीरयात्रां प्रतिष्ठते | अत्रान्तरे राजनाथसिंहः हुर्रियत नेतृभिः साकं सम्भाषणप्रयासं करिष्यति | इतः प्राक् प्रधानमन्त्रिणा नरेंद्रमोदिना विगतदिवसेषु कश्मीरे उमर अब्दुल्ला इत्येतस्य प्रतिनिधित्वे विरोधिदलानां प्रतिनिधिमंडलेन सहोपवेशनं समाचरितम् |
कांस्यपदकविजेत्री देशे प्रत्यावर्तिता
रियो ओलंपिक प्रतिस्पर्धायां कांस्यपदकविजेत्रीमल्लयुद्ध -कुशला साक्षिमलिकस्य देशे प्रत्यावर्तनानन्तरं देहल्याः वायुपत्तने भव्यं स्वागतं सञ्जातम् | स्रोतोभिः परिज्ञायते यत् तस्याः स्वागताय हरियाणाप्रशासनस्य पञ्चमन्त्रिणः वायुपत्तने समुपस्थिताः आसन् | साक्षी प्रोक्तवती यदहं राष्ट्राय सर्वश्रेष्ठप्रदर्शनं कर्तुमिच्छति स्म:|ओलंपिकस्पर्धानन्तरं जीवनं परिवर्तितम् | प्रसन्ना अस्मि यत् देशस्य परिवारस्य च गौरववर्धापने समर्था सम्प्रवृत्ता |
राजनाथसिंहः जम्मू-काश्मीरे।
श्रीनगर् > जम्मू-काश्मीरस्य सङ्घर्षावस्थां परिशोधयितुं केन्द्र-आभ्यन्तरसचिवः राजनाथसिंहः अद्य काश्मीरं प्रापयत्। काश्मीरस्य समस्याः परिहर्तुं राष्ट्रियचर्चा आवश्यकी इति प्रतिपक्षदलेन कृतायां चर्चायां प्रधानमन्त्रिणा उक्तमासीत्। एतदनुसृत्यैव आभ्यन्तरसचिवस्य काश्मीरसन्दर्शनम्। बुधवासरे,गुरुवासरे च राजनाथसिंहेनकाश्मीरस्य विविधैः राष्ट्रियनेतृभिः सह चर्चा क्रियते। किन्तु अद्य राजनाथसिंहस्य .काश्मीरसन्दर्शनात् पूर्वं सञ्जाते सङ्घर्षे एकः युवकः मृतः। तथा च प्रतिषेधानुयायिभिः सुरक्षासेनया सह जातेषु सङ्घर्षेषु मरणसंख्या ६८ अभवत्।
Subscribe to:
Posts (Atom)