OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, December 8, 2025

 इन्डिगो प्रतिसन्धिः। 

६१० कोटि रूप्यकाणि प्रत्यर्पितानि। 

नवदिल्ली> वैमानिकानां सेवासमयपरिष्करणेन प्रतिसन्धिं प्राप्तायाः इन्डिगो व्योमयानसंस्थायाः प्रवर्तनं रविवासरे अपि व्यवस्थाहीनमभवत्। आहत्य वर्तमानासु २३०० सेवासु १६५० सेवा एव ह्यः विधत्ताः। ६५० संख्याकाः निरस्ताः। 

  अद्यावधि येषां व्योमयात्रा निरस्ता तेभ्यः ६१० कोटि रूप्यकाणि चीटिकाप्रत्यर्पणरूपेण [Ticket refund] प्रतिदत्तानि। रविवासरात्पूर्वं प्रत्यर्पणराशिः दातव्य इति व्योमयानमन्त्रालयस्य निर्देशः आसीत्। विमाननिलयेषु लग्नानि ३००० भाण्डानि यात्रिकसङ्केतं प्रति प्रापितानीति च इन्डिगो संस्थया निगदितम्। डिसम्बर् दशमदिनाङ्केन विमानसेवा साधारणस्थितिं प्राप्स्यतीति च संस्थया प्रस्तुतम्।