OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Tuesday, December 9, 2025

 सप्त जनपदेषु अद्य जनविधिः। 

कोच्ची>  केरले त्रयस्तरपञ्चायत्तनिर्वाचनस्य अंशतया तिरुवनंतपुरंतः एरणाकुलपर्यन्तं सप्त जनपदेषु मङ्गलवासरे  निर्वाचनं सम्पद्यते। चरणद्वयेन एव प्रादेशिकस्वयंप्रशासनसभानिर्वाचनं भविष्यति। द्वतीयचरणत्वेन इतरेषु सप्त जनपदेषु  गुरुवासरे निर्वाचनं भविष्यति। ग्रामप्रदेशेषु त्रीणि मतदानानि करणीयानि।  नगरप्रदेशेषु एकं मतदानमेव कर्तव्यम्। प्रभाते सप्तवादनतः सायं षट्वादनपर्यन्तं भवति मतदानप्रक्रिया।