इन्डिगो व्योमसेवास्थगनं
इतरव्योमसेवासंस्थानाम् आर्थिकलुण्ठने केन्द्रप्रशासनस्य प्रग्रहः।
मुम्बई> कतिपयदिनैः अनुवर्तमानम् इन्डिगोसंस्थायाः प्रतिसन्धिम् अवकाशं कृत्वा एयर् इन्डियासहिताः व्योमसेवासंस्थाः यात्रिकेभ्यः आर्थिकं चूषणमकुर्वन्। वर्तमानमूल्यात् दशगुणितं यावत् रूप्यकाणि चीटिकामानरूपेण विधत्तानि। दिल्ली-कोच्ची ४५,०००; दिल्ली-अनन्तपुरी ४८,००० रूप्यकाणि आसीत् वर्धापितमूल्यम्। मुम्बई, हैदराबादः, बङ्गलुरु इत्यादिभ्यः स्थानेभ्यः च अमितमूल्यवर्धनं कृतम्।
किन्तु आराष्ट्रं प्रतिषेधे शक्ते व्योमयानमन्त्रालयस्य व्यवहारेण विमानयात्रामानाय परिधिः निश्चितः। ५०० कि मी दूरपर्यन्तं ७,५००; ५०० तः १०००कि मी पर्यन्तं १२,०००;१०००तः १५०० कि मी पर्यन्तं १५,००० रूप्यकाणि क्रमात् परिधिः निश्चितः।