OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Thursday, December 11, 2025

 कौमारकहोक्की विश्वचषकः

विश्ववीरः जर्मनी; भारतस्य तृतीयस्थानम्। 

कौमारकिरीटं प्राप्तः जर्मनीदलः। 

चेन्नै> कौमारकाणां विश्वयष्टिक्रीडावीरतास्पर्धायाः अन्तिमे प्रतिद्वन्द्वे वर्तमानीनवीरः जर्मनीदलः वीरतापदम् उपास्थापयत्। स्पेयिनदलं त्वरितलक्ष्यवेधने ३-२ इति क्रमेण पराजित्य एव जर्मन्याः किरीटप्राप्तिः। निश्चितसमये दलद्वयमपि समस्थितिं प्राप्तमासीत् -१ - १। 

  विनष्टान्तिमयोः [Loser's final] प्रतिद्वन्द्वे अर्जन्टीनादलं निष्प्रभं कृत्वा भारतेन तृतीयस्थानं सम्प्राप्तम्। प्रथमार्धकाले लक्ष्यद्वयस्य पृष्ठतः स्थित्वा अनन्तरं समुज्वलेन क्रीडनेन आसीत् भारतस्य विजयप्राप्तिः। द्वितीयार्धे भारतं चत्वारि लक्ष्यकन्दुकानि सम्प्राप्य विजयीभूतम्।