इन्डिगो संस्थायाः १०% सेवां न्यूनीकर्तुं केन्द्रसर्वकारस्य आदेशः।
नवदिल्ली> व्योमयात्रासेवायाम् इन्डिगो संस्थायाः अव्यवस्थामाधारीकृत्य दश प्रतिशतं सेवां न्यूनीकर्तुं केन्द्रसर्वकारस्य आदेशः। संस्थायाः प्रतिनिधिसंघेन सह उपवेशनानन्तरं केन्द्रव्योमयानमन्त्रिणा के राम मोहन नायिडुना निगदितमेतत्। अस्मात् कारणात् शैत्यकालसेवायां इन्डिगो संस्थायाः २३० सेवाः निरस्यमानाः भविष्यन्ति।
आहत्य वर्तमानेषु २३०० प्रतिदिनसेवासु ह्यः ४००+ सेवाः निरस्ताः जाताः। दिल्ल्यामेव १५० सेवाः निरस्ताः।
