OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, December 10, 2025

 इन्डिगो संस्थायाः १०% सेवां न्यूनीकर्तुं केन्द्रसर्वकारस्य आदेशः। 


नवदिल्ली> व्योमयात्रासेवायाम् इन्डिगो संस्थायाः अव्यवस्थामाधारीकृत्य दश प्रतिशतं सेवां न्यूनीकर्तुं केन्द्रसर्वकारस्य आदेशः। संस्थायाः प्रतिनिधिसंघेन सह उपवेशनानन्तरं केन्द्रव्योमयानमन्त्रिणा के राम मोहन नायिडुना निगदितमेतत्। अस्मात् कारणात् शैत्यकालसेवायां इन्डिगो संस्थायाः २३० सेवाः निरस्यमानाः भविष्यन्ति। 

  आहत्य वर्तमानेषु २३०० प्रतिदिनसेवासु ह्यः ४००+ सेवाः निरस्ताः जाताः। दिल्ल्यामेव १५० सेवाः निरस्ताः।