OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Saturday, December 6, 2025

 एकदिनक्रिकटे विशाखविजयः। 

भारतस्य परम्पराप्राप्तिः।

यशस्वी जयस्वालस्य शतकप्राप्तिः। 

विशाखपट्टणं> दक्षिणाफ्रिकां विरुध्य विशाखपट्टणे सम्पन्ने तृतीये अन्तिमे एकदिनक्रिकट् प्रतिद्वन्द्वे भारतस्य अनुपमविजयः। दक्षिणाफ्रिकां नव द्वारकैः पराजित्य भारतं परम्परां सम्प्राप। 

  ५० क्षेपणचक्रेषु १० ताडकानां विनष्टे २७० धावनाङ्काः दक्षिणाफ्रिकया सम्पादिताः। प्रत्युत्तरक्रीडायां केवलमेकस्य कन्दुकताडकस्य विनष्टे २७१ धावनाङ्कान् सम्पाद्य भारतेन परम्परा प्राप्ता २ - १। ६१ कन्दुकेषु अवशिष्टेषु आसीत् भारतस्य उज्वलविजयः। यशस्वी जयस्वालस्य शतकं (११६), विराट कोहली (६५), रोहित शर्मा च अर्धशतकं च प्राप्तवन्तौ।

Latest news