OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Thursday, December 11, 2025

 ऊनषोडशवयस्कानां सामाजिकमाध्यमनिरोधः। 

आस्ट्रेलियायां नियमः प्रवृत्तिपथमागतः। 

कान्बरा> ऊनषोडशवयस्काः बालकाः सामाजिकमाध्यमेभ्यः निरुद्धाः इत्येवं नियमितानां मध्ये  विश्वस्मिन् प्रथमराष्ट्रमिदं, सा ख्याति आस्ट्रेलियायै एव। एषः नियमः राष्ट्रे कुजवासरे प्रबलः जातः। अनेन इन्स्टग्रामः, फेय्स् बुक्, एक्स्, टिक् टोक्, यू ट्यूब् इत्यादिषु सामाजिकमाध्यमेषु कौमारवयस्कानां लक्षशः दत्तसंख्याः निर्जीवाः भवेयुः। 

  नियमोल्लंघने बालकाः वा रक्षितारो वा न दण्ड्याः, प्रत्युत, सामाजिकमाध्यमसंस्थाभ्यः  ४९. ५ कोटि आस्ट्रेलियाडोलर् मितं [२९५  कोटि रूप्यकाणि] द्रव्यदण्डं विधास्यति। दुर्घटनात्मकेभ्यः अनुक्रमणिकेभ्यः राष्ट्रस्य नूतनपरम्पराः परिपालनीयाः इत्येव लक्ष्यमिति सर्वकारेण निगदितम्। 

 सर्वकारस्यास्मिन् प्रक्रमे कुमाराः तापमनुभवन्ति।। सम्पूर्णनिरोधस्य स्थाने दुर्घटनात्मकानाम् अनुक्रमणिकानां निरोधः आसीत् वरमिति केचन कथयन्ति।