हार्दिक पाण्ड्यस्य ताडनपटहेन
टि २० मध्ये भारतस्य विजयः। 
दक्षिणाफ्रिकां विरुध्य हार्दिक पाण्ड्यस्य कन्दुकताडनम्।
कट्टकः> विमुक्ताहतस्य हार्दिक पाण्ड्यस्य स्फोटकात्मकार्धशतकस्य आधारे दक्षिणाफ्रिकां विरुध्य प्रथमे टि २० प्रतिद्वन्द्वे भारतस्य १०१ धावनाङ्कानाम् उज्वलविजयः। प्राप्ताङ्कसूचिका - भारतेन २० क्षेपणचक्रे १७५/६। दक्षिणाफ्रिका १२.३ क्षेपणचक्रे ७४ धावनाङ्कैः सर्वे बहिर्नीताः।