OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, December 6, 2025

 भारताय तैलेन्धनं अनुस्यूतं प्रदास्यते इति पुतिनः।

नवदिल्ली> भारताय तैलेन्धनं प्रदातुं रष्यः सज्जः इति रष्यस्य राष्ट्रपतिः व्लादिमीरः पुतिनः अवदत्। रष्यातः तैलस्य आनयनं स्थगयितुं भारतस्योपरि अमेरिकः महासम्मर्दः क्रियमाणः अस्ति। सन्दर्भेऽस्मिन् भवति पुतिनस्य इदं ख्यापनम्। भारत-रष्ययोः मिथः भाषणवेलायाम् आसीत् पुतिनस्य इदं ख्यापनम् ॥