केरले तद्देशनिर्वाचनस्य द्वितीयचरणं श्वः।
अनन्तपुरी> केरलराज्ये प्रादेशिकप्रशासनेभ्यः प्रचाल्यमानस्य निर्वाचनस्य द्वितीयचरणं गुरुवासरे सम्पत्स्यते। मङ्गलवासरे सघोषप्रचारणं सोज्वलं समाप्तम्। अद्य निश्शब्दप्रचरणस्य कालः अस्ति।
तृश्शूर् जनपदात् आरभ्य कासरगोडपर्यन्तं सप्त जनपदेषु एव श्वः निर्वाचनम्। ६०४ स्वयंप्रशासनेभ्यः १२३९१ प्रादेशिकसदस्याः निर्वाचनीयाः सन्ति। स्थानाशिनः ३८,८८४ तथा मतदानिनः सार्धैककोट्यधिकसंख्याकाः च सन्ति।