OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Wednesday, September 17, 2025

 मेघविस्फोटनम् 

हिमाचले उत्तराखण्डे च १३ मरणानि। 

देह्रादूणः> उत्तराखण्डे सहस्रधारा नाम्नि पर्यटनकेन्द्रे कुजवासरे दुरापन्ने मेघविस्फोटनोद्भूते प्रलयदुरन्ते १० जनाः मृत्युमुपगताः। असंख्यं जनाः तिरोभूताः। वीथयः, सेतवः, भवनानि च विशीर्णानि। गर्वालक्षेत्रे व्यपकतया विनाशः अभवत्। 

  हिमाचले माण्डि इत्यत्र वासगृहस्य उपरि शिलाखण्टपातेन परिवारस्थाः त्रयः मृताः। बहुत्र वृष्टिदुष्प्रभावः विद्यते। मणिपुरे अपि कठिना वृष्टिः अनुभूयते।

 गासायाम् इस्रयेलस्य स्थलसेनायाः आक्रमणम्। 

गतदिने ७८ मरणानि। 

गासायाम् इस्रयेलस्य आक्रमणम्।

जरुसलेमः> यू एस् विदेशकार्यसचिवस्य हमासोन्मूलनप्रख्यापनस्य अनुबन्धेन इस्रयेलः स्थलाक्रमणं तीव्रं कारितम्। कुजवासरे गासासिटी स्थानस्य अन्तः प्रविश्य कृते आक्रमणे ७८. गासानिवासिनः हताः। असंख्यं जनाः व्रणिताः जाताः। 

  "गतरात्रौ अस्माभिः युद्धस्य प्रमुखः पदक्षेपः कृतः। गासासिट्यां स्थलाक्रमणं विपुलीकृतम्।" - इस्रयेलस्य सेनावक्ता अविचाय् आन्डेली नामकः निगदितवान्। यत्र आक्रमणं प्रचलति तत्र २००० - ३००० हमासीयाः विद्यन्ते इति सेनया अभिमानितम्। किन्तु गासाक्रमणं यू एन् संस्थया, यूरोपीयराष्ट्रसंघटनेन च अपलपितम्। हमासोन्मूलनं न, गासासिट्याः संग्रहणमेव अस्य युद्धस्य लक्ष्यमिति राष्ट्रनेतारः आरोपितवन्तः।

Tuesday, September 16, 2025

सम्प्रतिवार्तापत्रिका दशसंवत्सराणि अतीता 


 त्रयः मावोवादिनः व्यापादिताः।

अन्यतमः कोटिरूप्यकाणि शिरोमूल्यं कल्पितः। 

हसारिबागः> झार्खण्डस्थे हसारिबागे प्रमुखाः त्रयः मावोवादिनेतारः संयुक्तसेनया सह प्रतिद्वन्द्वे व्यापादिताः। गोहार् आरक्षकस्थानावधौ पन्तित्रि नामके वने सोमवासरे उषसि आसीत् प्रतिद्वन्द्वः। 

  हतेषु एकः नाम्ना सहदेव सोरनः एककोटिरूप्यकाणि शिरोमूल्यं प्रकल्पितः आसीत्। अन्यः रघुनाथ हेब्राम इत्यस्य २५ लक्षं, अपरः बीर्सेन् इत्यस्य दलक्षं च रूप्यकाणि शिरोमूल्यम् उद्घोषितमासीत्।

 केरले 'अमीबिक मस्तिष्कज्वरः' व्याप्यते। 

आहत्य १९ मरणानि।


अनन्तपुरी> जलाशयेभ्यः प्रसार्यमाणः अमीबिक मस्तिष्कज्वरः नामकरोगबाधया केरलराज्ये  अस्मिन् वर्षे अद्यावधि १९ जनाः मृता इति स्वास्थ्यविभागेन निगदितम्।  २० जनाः रोगबाधया राज्यस्य विविधस्थानेषु परिचर्यायां वर्तन्ते। 

  अनन्तपुरी सर्वकारीयवैद्यककलालये [Govt.Medical College] इदानीं ११ जनाः अमीबिकज्वरेण परिचर्यायां वर्तन्ते। कोष़िकोट्, कोल्लम् इत्यादिषु जनपदेषु रोगबाधा दृश्यते।

 हमासः उन्मूलनीय इति यू एस् विदेशकार्यसचिवः।

जरुसलेमः> गासायुद्धे इस्रयेलाय अचञ्चलमनुकूलनम् उद्घोषयन् यू एस् राष्ट्रस्य विदेशकार्यसचिवः मार्को रूबियो। हमासं उन्मूलनं कर्तुं स्वराष्ट्रस्य आलम्बः भविष्यतीति इस्रयेले सन्दर्शनं कुर्वन् सः उदघोषयत्। "हमासस्य उन्मूलनेन  विना गासीयजनेभ्यः श्रेष्ठजीवनं प्रदातुं न शक्यते" वार्ताहरान् प्रति सोSवदत्। 

  अमेरिकायाः अवष्टम्भे इस्रयेलप्रधानमन्त्री बञ्चमिन नेतन्याहु‌ः डोनाल्ड ट्रम्पाय कृतज्ञतां प्रकाशितवान्।

 आर्. वैशाली किरीटं प्राप्तवती।


समर्खण्डः>  उस्बकिस्थाने समर्खण्डप्रदेशे प्रचलिते 'फिडे महिलाग्रान्ट् स्विस्' चतुरङ्गप्रतिद्वन्द्वे भारतस्य आर्. वैशाली किरीटं प्राप्तवती। अनुस्यूततया द्वितीयवारमेव वैशाल्याः किरीटप्राप्तिः। अनेन विजयेन विश्ववीरतास्पर्धायां अन्तिमप्रतिद्वन्द्विनः अधिगन्तुमुद्दिष्टं 'कान्डिडेट् टूर्णमेन्ट्' इत्यमुं  च वैशाली योग्यतां प्राप्तवती। 

   अन्तिमचक्रप्रतिद्वन्द्वे चीनस्य टान् सोङ्गी नामिकां समस्थितिं गृहीत्वा एव चेन्नै निवासिनी भारतस्य 'ग्रान्ड्मास्टर्' पदीया वैशाली किरीटं प्राप्तवती। २०२३ तमे वर्षे अपि एषा एव विजेत्री अभवत्।

 असमे भूचलनम्। उत्तरपूर्वीयराज्येषु प्रकम्पनम्। 

गुवाहाट्टी> असमराज्ये रिक्टर् अङ्कने ५. ९ अङ्कितं भूचलनमभवत्। उत्तरपूर्वीयराज्येषु पश्चिमवंगे च अस्य प्रकम्पनमभवत्। रविवासरे सायमासीत् भूचलनम्। 

  असमे द्वौ आहतौ। नैकानि गृहाणि विशीर्णानि। चत्वारि भूचलनानि असमे अङ्कितानि। इतरस्थानेषु जातानि प्रकम्पनानि अधिकृत्य वृत्तान्ताः न बहिरागताः।

Monday, September 15, 2025

 नेपाले मार्च् ५ तमे सार्वजनिकनिर्वाचनम्। 

काठ्मण्डुः> सामाजिकमाध्यमनिरोधनेन जाते प्रक्षोभझंझावाते के पि शर्मा ओली सर्वकारस्य उन्मूलनमापन्ने नेपालराष्ट्रे २०२६ मार्च् पञ्चमदिनाङ्के    सार्वजनीननिर्वाचनं विधास्यति। राष्ट्रपतेः रामचन्द्र पौडेलस्य कार्यालयेन निगदितमिदम्। 

  निर्वाचनस्य कार्यकर्तृत्वमावहितुं राष्ट्रे शान्तिपुनःसंस्थापयितुं  च भूतपूर्वमुख्यन्यायाधिपायाः सुशीलाकर्क्याः नेतृत्वे अल्पकालीनसर्वकारः शुक्रवासरे शपथवाचनं करोति स्म।

 एष्या चषक क्रिकट् 

पाकिस्थानं विरुध्य भारतस्य उज्वलविजयः। 

कुलदीपयादवः - ३ द्वारकाणि, ४७*, श्रेष्ठक्रीडकः। 


दुबाय्> अत्रस्थे अन्तर्देशीयक्रीडाङ्कणे सम्पन्ने भारत-पाकिस्थानयोः क्रिकट्प्रतिद्वन्द्वे भारतस्य उज्वलविजयः। पाकिस्थानं सप्त द्वारकैः पराजयत। 

  प्रथमं कन्दुकताडनं कृतवन्तं पाकिस्थानगणं २० क्षेपणचक्रेषु ९ ताडकान् बहिर्नीत्वा १२७ धावनाङ्कैः भारतगणं बबन्ध। प्रत्युत्तरताडने १५.५ क्षेपणचक्रेषु केवलं त्रयाणां द्वारकाणां विनष्टे १३१ धावनाङ्कान् प्राप। 

  भारताय 'स्पिन्'क्रीडकः नायकः च कुलदीप यादवः त्रीणि द्वारकाणि सम्प्राप्तवान्। सः अबाह्यः सन् ४७ धावनाङ्कान् सम्प्राप्य श्रेष्ठक्रीडकपदमपि अवाप। अनेन विजयेन त्रीन् विजयानवाप्य भारतम् ए नामके स्वकीये संघे  प्रथमगणनीयतामवाप।


 मणिपुरे पुनरपि संघर्षः।

इम्फालः> प्रधानमन्त्री नरेन्द्रमोदी मणिपुरराज्यं सन्दर्श्य यदा  निवृत्तवान् तदनन्तरं चुराचन्दपुरे पुनः संघर्षः आपन्नः। प्रधानमन्त्रिणः सन्दर्शनवेलायां ये  अलङ्करणवस्तूनि विनाशितवन्तः ते निगृहीताः आसन्। एतत् विरुध्य सुरक्षासेनां प्रति पाषाणखण्डविक्षेपः जातः।

 केरले विधानसभासम्मेलनम् अद्य आरभ्यते। 


अनन्तपुरी> केरलस्य १४ तमविधानसभायाः १५तमं सम्मेलनं सोमवासरे आरभ्यते। १७ विधेयकानि परिगणनार्हाणि सन्ति। तेषु आक्रमणकारिणां वन्यजीविनां वधसम्बन्धविधेयकं प्राधान्यमर्हति। एतदभिव्याप्य त्रीणां विधेयकानां नियमपरिरक्षणाय राष्ट्रपतेः अनुज्ञा आवश्यकी। 

  सम्मेलनस्य त्रीणि सोपानानि भविष्यन्ति। प्रथमसोपानं १५ तमदिनाङ्कतः १९ पर्यन्तं भविष्यति। २९, ३० दिनाङ्कयोः द्वितीयं, ओक्टोबर् ६ - १० तृतीयं च।

Sunday, September 14, 2025

 मणिपुरे प्रशान्तिं पुनःस्थापयिष्यति - प्रधानमन्त्री। 


चुरा चन्दपुरं> मणिपुरराज्ये विनष्टां  शान्तिं पुनःसंस्थायितुं यतिष्यते इति  प्रधानमन्त्री नरेन्द्रमोदी उद्घोषितवान्। केन्द्रप्रशासनं मणिपुरेण सह वर्तते इति प्रधानमन्त्रिणा उक्तम्। 

  ह्यः चुरा चन्दपुरे ७३०० कोटिरूप्यकाणां विकसनभण्डागारस्य उद्घाटनं कृत्वा अनन्तरं जनान् प्रति भाषितवान् प्रधानमन्त्री मणिपुरं शान्तेः समृद्धेः च प्रतीकं करिष्यतीति उक्तवान्। राज्यात् ये निष्कासिताः तेषां पुनरधिवासाय ७००० वासगृहाणि निर्मास्यन्ति। तदर्थं ३००० कोटिरूप्यकाणाम् अभियोजना उद्घोषिता आसीत्। सविशेषसाहाय्यार्थं ५०० कोटिरूप्यकाणां परियोजना अपि विज्ञापिता। 

  अतिवृष्टिकारणेन इम्फालतः वीथीद्वारा एव प्रधानमन्त्री चुराचन्दपुरं प्राप्तवान्। राज्यपालः अजयकुमार भल्ला इत्यादयः कार्यक्रमे भागं गृहीतवन्तः। इम्फाले १२०० कोटि रूप्यकाणां १७ परियोजनाः अपि प्रधानमन्त्रिणा विज्ञापिता। २०२३ मेय् मासे वंशीयकलहारम्भात् परं प्रथमतया एव प्रधानमन्त्री नरेन्द्रमोदी मणिपुरं प्राप्तवान्।

 गणेशमूर्तिघोषयात्रां प्रति 'ट्रक् यानं' संघट्य नव मरणानि। 

दुर्घटनादृश्यम्। 

हासन्> कर्णाटके गणेशमूर्ति निमज्जन घोषयात्रां प्रति अमितशीघ्रेण आगतं ट्रक् यानं संघट्य नव जनाः मृताः। विंशत्यधिके कठिनतया व्रणिताः। 

  गतरात्रौ होले नरसिंहपुरमित्यत्र होसहल्लीस्थाने आसीदियं दुर्घटना। व्रणिताः हासने विविधान् आतुरालयान् प्रवेशिताः। ट्रक् यानस्य अमितशीघ्रता एव दुरन्तकारणमिति सूच्यते। दुर्घटनानन्तरं चालकः पलायितवान्।

प्रगत्यर्थं शान्तिरावश्यकी मणिपूरस्य सौन्दर्यं हिंसया दूषितम्। - नरेन्द्रमोदी

   प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् कस्यापि क्षेत्रस्य समुन्नत्यै शान्तिपूर्णं वातावरणम् अत्यावश्यकं वर्तते। तेनोदितं यद् विगतकाले मणिपूरराज्ये प्रवृत्ता हिंसाचाराः राष्ट्रस्य कृते महतीं चिन्ताम् अजनयन्। एभिः सङ्घर्षैः न केवलं जनजीवनम् अस्तव्यस्तम् अभवत् अपितु तस्य प्रदेशस्य नैसर्गिकं सांस्कृतिकं च वैभवं कलङ्कितं जातम्। अतः शान्तेः पुनःस्थापनाय सर्वे नागरिकाः समेत्य प्रयतेरन्निति प्रधानमन्त्रिणा समाहूतम्। केन्द्रशासनमपि राज्ये सौहार्दपुनर्निर्माणाय सर्वथा प्रतिबद्धमस्तीति तेन दृढीकृतम्॥

Saturday, September 13, 2025

 प्रधानमन्त्री अद्य मणिपुरे।


नवदिल्ली> वंशीयकलहेन कलुषितं मणिप्पुरं राज्यं प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे सम्पश्यति। भूरिशः  कुक्की समुदायांगैः अधिवसन्तं चुराचन्दपुरम्, इम्फाल इत्येतेषु प्रदेशेषु कतिपयकार्यक्रमेषु प्रधानमन्त्री भागं करिष्यति।

  २०२३ मेय् मासे प्रक्षोभमारभ्य ८६४ दिनानन्तरमेव प्रधानमन्त्री मणिप्पुरं प्राप्नोति। चुराचन्दपुरे होर्टोक्की-तैरङ्ग रेल् मार्गं सः उद्घाटनं करिष्यति। ७३०० कोटि रूप्यकाणां विकसनाभियोजनानां शिलान्यास अपि तेन करिष्यते।

 'जेन् सी' प्रक्षोभः - ५१ जनाः हताः ।

एकः भारतीयः। 

नेपालं शान्तिमुपगच्छति।

काठ्मण्डुः> युवजनानां प्रक्षोभेण कलुषितः  नेपालदेशः क्रमेण शान्तिमुपगच्छति। दिनद्वयेन अक्रमघटनाः न वृत्तान्तीकृताः। किन्तु सेनया विधत्तं 'कर्फ्यू' नामकनियन्त्रणम् अनुवर्तते। 

  प्रत्युत, अद्यावधि अक्रमघटनासु एकं भारतीयं,  त्रीन् रक्षिपुरुषान् चाभिव्याप्य ५१ जनाः हताः इति आधिकारिकतया स्थिरीकृतम्। विशदांशाः न लब्धाः। वृत्तान्तप्रसारणे अपि  नियन्त्रणं वर्तते इति सूच्यते।

 सुशीला कर्की नेपालस्य ह्रस्वकालीनप्रधानमन्त्री।

राष्ट्रस्य प्रथमा महिलाप्रधानमन्त्री।

सुशीला कर्की राष्ट्रपतेः रामचन्द्र पौडेनस्य पुरतः शपथवाचनं करोति। 

काठ्मण्डुः> युवजनानां प्रक्षोभकारणात् प्रधानमन्त्री के पी शर्मा ओली इत्यस्य स्थानभ्रष्टेन नेपालदेशे सञ्जातस्य राजनैतिकानिश्चितत्वस्य अल्पकालीनविरामः। ह्रस्वकालीनप्रधानमन्त्रिरूपेण नेपालस्य  सर्वोच्चन्यायालयस्य भूतपूर्वीया मुख्यन्यायाधिपा सुशीला कर्कीवर्या [७३] शपथवाचनं कृतवती। शुक्रवासरे रात्रौ नववादने आसीत् कार्यक्रमः। नेपालस्य प्रप्रथमा महिलाप्रधानमन्त्री अस्ति सुशीला कर्कीवर्या।

  सामाजिकमाध्यमानां निरोधः, भ्रष्टाचारः, स्वजनपक्षपातित्वम् इत्यादीनि विरुध्य 'जेन् सी' नामकप्रक्षोभकाणां सम्मर्देन प्रधानमन्त्री के पी ओली शर्मा स्थानभ्रष्टः अभवत्। [१९९७ तमवर्षस्य २०१२ तम वर्षस्य चाभ्यन्तरे लब्धजन्मनां संघटनमस्ति 'जेन् सी'।] ततः सेनाधिकारिणः राष्ट्रपतिः रामचन्द्र पौडेनः इत्यादिभिः सह प्रक्षोभकारिणां प्रतिनिधिभिः कृतायाः चर्चायाः परिणामो भवति सुशीलावर्यायाः शपथवाचनम्। नेपालस्य प्रथमा महिला सर्वोच्चमुख्यन्यायाधिपा तथा  प्रथमा महिलाप्रधानमन्त्री च भवति सुशीला कर्कीवर्या।