आर्. वैशाली किरीटं प्राप्तवती।
समर्खण्डः> उस्बकिस्थाने समर्खण्डप्रदेशे प्रचलिते 'फिडे महिलाग्रान्ट् स्विस्' चतुरङ्गप्रतिद्वन्द्वे भारतस्य आर्. वैशाली किरीटं प्राप्तवती। अनुस्यूततया द्वितीयवारमेव वैशाल्याः किरीटप्राप्तिः। अनेन विजयेन विश्ववीरतास्पर्धायां अन्तिमप्रतिद्वन्द्विनः अधिगन्तुमुद्दिष्टं 'कान्डिडेट् टूर्णमेन्ट्' इत्यमुं च वैशाली योग्यतां प्राप्तवती।
अन्तिमचक्रप्रतिद्वन्द्वे चीनस्य टान् सोङ्गी नामिकां समस्थितिं गृहीत्वा एव चेन्नै निवासिनी भारतस्य 'ग्रान्ड्मास्टर्' पदीया वैशाली किरीटं प्राप्तवती। २०२३ तमे वर्षे अपि एषा एव विजेत्री अभवत्।