सुशीला कर्की नेपालस्य ह्रस्वकालीनप्रधानमन्त्री।
राष्ट्रस्य प्रथमा महिलाप्रधानमन्त्री।.jpg)
सुशीला कर्की राष्ट्रपतेः रामचन्द्र पौडेनस्य पुरतः शपथवाचनं करोति।
काठ्मण्डुः> युवजनानां प्रक्षोभकारणात् प्रधानमन्त्री के पी शर्मा ओली इत्यस्य स्थानभ्रष्टेन नेपालदेशे सञ्जातस्य राजनैतिकानिश्चितत्वस्य अल्पकालीनविरामः। ह्रस्वकालीनप्रधानमन्त्रिरूपेण नेपालस्य सर्वोच्चन्यायालयस्य भूतपूर्वीया मुख्यन्यायाधिपा सुशीला कर्कीवर्या [७३] शपथवाचनं कृतवती। शुक्रवासरे रात्रौ नववादने आसीत् कार्यक्रमः। नेपालस्य प्रप्रथमा महिलाप्रधानमन्त्री अस्ति सुशीला कर्कीवर्या।
सामाजिकमाध्यमानां निरोधः, भ्रष्टाचारः, स्वजनपक्षपातित्वम् इत्यादीनि विरुध्य 'जेन् सी' नामकप्रक्षोभकाणां सम्मर्देन प्रधानमन्त्री के पी ओली शर्मा स्थानभ्रष्टः अभवत्। [१९९७ तमवर्षस्य २०१२ तम वर्षस्य चाभ्यन्तरे लब्धजन्मनां संघटनमस्ति 'जेन् सी'।] ततः सेनाधिकारिणः राष्ट्रपतिः रामचन्द्र पौडेनः इत्यादिभिः सह प्रक्षोभकारिणां प्रतिनिधिभिः कृतायाः चर्चायाः परिणामो भवति सुशीलावर्यायाः शपथवाचनम्। नेपालस्य प्रथमा महिला सर्वोच्चमुख्यन्यायाधिपा तथा प्रथमा महिलाप्रधानमन्त्री च भवति सुशीला कर्कीवर्या।