OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Monday, September 8, 2025

 प्रलयबाधितानि उत्तरभारतराज्यानि प्रधानमन्त्री सम्पश्यति।


चण्डीगढः>  अतिवृष्ट्या प्रलयेन च महान्तं क्लेशमनुभवन्ति उत्तरभारतराज्यानि प्रधानमन्त्री नरेन्द्रमोदी अचिरेण सन्द्रक्ष्यति। कुजवासरे पञ्चाबं प्राप्स्यमाणः मोदिवर्यः गुरुदासपुरजनपदं सन्द्रक्ष्यति। अतीतेषु ५० संवत्सराभ्यन्तरेषु जातात् अधिककठिनतीव्रप्रलयः अस्मिन् वर्षे अत्र जातः। आराज्यं १३,२८९ कोटिरूप्यकाणां नाशः आपन्न इति राज्यसर्वकारस्य गणना। 

  पुनरागम्यमानेषु दिनेषु हिमाचलप्रदेशः, जम्मुकाशमीरम्, उत्तराखण्डः इत्येतानि राज्यान्यपि प्रधानमन्त्री सन्द्रक्ष्यति । एतानि राज्यानि अतिरिच्य दिल्ल्यामपि अतिवृष्टिदुष्प्रभावः तीव्रेण बाधते स्म। 

  पूर्वोक्तेषु राज्येषु वृष्टेः लघुशमनमभवदपि जनजीवनं सामान्यस्तरं नापन्नम्।