OUR YouTube Channel 1. SampratiVartah |  
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Call for Papers
Samprati Vārtāḥ (Śodhamañjarī)
An International Peer-Reviewed /Refereed Research Journal on Indology and Indian Knowledge System
🌐 Publishing in: Sanskrit | English | Hindi

Wednesday, September 3, 2025

 पण्यसेवकरस्य पुनर्विभाजनं जीवनस्वास्थ्ययोगक्षेमस्य  करविमुक्तिश्च।

उच्चस्तरीयसमित्याः परामर्शमनुसृत्य भारतशासनेन पण्यसेवकरप्रणाल्यां महतीं पुनर्व्यवस्थां कर्तुं निश्चितम्। इयं नूतना करव्यवस्था आगामिनः सप्ताम्बर् मासस्य द्वाविंशतिदिनाङ्कात् प्रचलिष्यति।


अस्याः नूतनयोजनायाः अनुसारेण केवलं पञ्चप्रतिशतात्मकोऽष्टादशप्रतिशतात्मकश्चेति द्वौ एव मुख्यौ करस्तरौ स्थास्यतः। वर्तमानौ द्वादशप्रतिशतात्मकः अष्टाविंशतिप्रतिशतात्मकश्च करस्तरौ सर्वथा निरस्तौ भविष्यतः। पूर्वम् एतयोः स्तरयोः समावेशितानि सर्वाणि वस्तूनि सेवाश्च अधुना अष्टादशप्रतिशतस्तरे अन्तर्भावयिष्यन्ते। एतदतिरिक्तं सुवर्णरजतहीरकादिबहुमूल्यवस्तुभ्यः त्रिप्रतिशतात्मक एको विशिष्टः करस्तरः अपि प्रतिष्ठापयिष्यते।


सर्वप्रधानं यत् जीवनयोगक्षेमस्य ( Life insurance) स्वास्थ्य-योगक्षेमस्य  पण्यसेवकरः पूर्णतया विमोक्ष्यते। तथा च अमुद्रितानि खाद्यवस्तून्यपि अस्मात् करभारान्मुक्तानि भविष्यन्ति। शासनस्य उद्देश्योऽस्ति यदनेन सरलीकृतेन विधानेन सामान्यजनानाम् उपरि आर्थिकभारो लघूभविष्यति समग्र-करप्रणाली च सुगमतरं भविष्यति॥